मंत्री अर्जुन सिंहः अकरोत् तारापुरचिकित्सालयस्य निरीक्षणम्
कोलकाता , 25 अगस्तमासः (हि.स.)।दीर्घकालात् दयनीयस्थितौ स्थितस्य समशेरगञ्जस्य तारापुरचिकित्सालयस्य मङ्गलवासरे प्रातः राज्यस्य परिवहनश्रममन्त्री अर्जुनसिंहेन निरीक्षणं कृतम्। मन्त्रिणः चिकित्सालयागमनं दृष्ट्वा प्रशासनस्य पक्षतः सुरक्षायाः कठोराः व्यव
मंत्री अर्जुन सिंह अस्पताल का दौरा करने पहुंचे


कोलकाता , 25 अगस्तमासः (हि.स.)।दीर्घकालात् दयनीयस्थितौ स्थितस्य समशेरगञ्जस्य तारापुरचिकित्सालयस्य मङ्गलवासरे प्रातः राज्यस्य परिवहनश्रममन्त्री अर्जुनसिंहेन निरीक्षणं कृतम्। मन्त्रिणः चिकित्सालयागमनं दृष्ट्वा प्रशासनस्य पक्षतः सुरक्षायाः कठोराः व्यवस्थाः कृताः आसन्। अस्मिन् अवसरे श्रमविभागस्य अधिकारिभिः सह भाजपादलस्य नेतारः कार्यकर्तारश्च चिकित्सालयपरिसरे उपस्थिताः आसन्।

निरीक्षणसमये मन्त्रिणा चिकित्सालयस्य वर्तमानस्थितेः, आधारभूतसंरचनायाः, चिकित्सासेवायाः रोगिभिः अनुभूयमानानां समस्याना च विषये सूचनाः प्राप्ताः। चिकित्सालयस्य दीर्घकालीनसमस्यानां विषये अधिकारिभिः स्थानीयप्रतिनिधिभिश्च मन्त्रिणः समक्षं विभिन्नाः विषयाः प्रस्तुताः।

चिकित्सालयस्य वर्तमानस्थितिं चिकित्साव्यवस्थां च अधिकृत्य वामपन्थीयः श्रमिकनेता मोहम्मदआजादः मन्त्रिणे विस्तरेण सूचनाः प्रदत्तवान्। अपरतः भाजपानेता षष्ठीचरणघोषः अपि चिकित्सालयस्य समस्याः स्थानीयजनानां सम्मुखीभूताः कठिनताश्च मन्त्रिणे अवगतवान्।

स्थानीयजनैः उक्तं यत् तारापुरचिकित्सालयः समशेरगञ्जस्य समीपवर्तिनां विस्तृतक्षेत्रस्य च जनानां कृते महत्त्वपूर्णं स्वास्थ्यकेन्द्रम् अस्ति। अतः चिकित्सालयस्य आधारभूतसंरचनायां चिकित्सासेवासु च सुधारः भवेत् चेत् बहुसंख्याकाः जनाः लाभान्विताः भवितुं शक्नुवन्ति। जनैः चिकित्सालये आवश्यकसुविधानां विकासं चिकित्साव्यवस्थायाः च सुधारं कर्तुं मागः कृतः।

निरीक्षणानन्तरं मन्त्री अर्जुनसिंहः अवदत् यत् सम्प्रति राज्ये ‘द्वियन्त्रक’सर्वकारः अस्ति। तेन विश्वासः प्रदर्शितः यत् आगामिदिनेषु तारापुरचिकित्सालयस्य विकासाय आवश्यकाः उपायाः स्वीकरिष्यन्ते। सामान्यजनानां कृते चिकित्सालये उत्तमचिकित्सासुविधाः उपलब्धाः भवेयुः, अस्मिन् दिशि अपि विशेषं ध्यानं दास्यते।

मन्त्री अवदत् यत् चिकित्सालयस्य वर्तमानस्थितिं दृष्ट्वा अस्य विकासस्य आवश्यकता अस्ति तथा सर्वकारः अस्मिन् दिशि आवश्यकाः प्रयासाः करिष्यति।

चिकित्सालयस्य दयनीयस्थितिं दृष्ट्वा अर्जुनसिंहेन पूर्वतनायाः तृणमूलसर्वकारस्यापि आलोचना कृता। तेन आरोपितं यत् दीर्घकालपर्यन्तं राज्यस्य तृणमूलसर्वकारेण चिकित्सालयानां विकासाय स्वास्थ्यसुविधानां च पर्याप्तं महत्त्वं न प्रदत्तम्। तेन उक्तं यत् अधुना नवीनप्रयासानां माध्यमेन तारापुरचिकित्सालयस्य स्थितौ परिवर्तनं कर्तुं प्रयासः क्रियते।

दीर्घकालात् चिकित्सालयस्य दयनीयस्थितिं प्रतिपरिवादं कुर्वतां स्थानीयजनानां मनसि अधुना आशा उत्पन्ना अस्ति यत् मन्त्रिणः निरीक्षणानन्तरं चिकित्सालयस्य विकासस्य दिशि शीघ्रमेव दृढाःउपायाः स्वीक्रियन्ते।

---------------

Hindusthan Samachar / Dheeraj Maithani