नेत्रदानस्य संकल्पमाधृत्य प्रकाशयेत्कस्यचिज्जीवनं, धमतर्यां नेत्रदानपक्षसमाचरणस्य शुभारंभः
धमतरी, 25 अगस्तमासः (हि.स.)। राष्ट्रियान्धत्वस्य अल्पदृष्टेः च नियन्त्रणकार्यक्रमस्य अन्तर्गतं मङ्गलवासरात् धमतरीजनपदचिकित्सालये राष्ट्रीयनेत्रदानपक्षस्य शुभारम्भः कृतः। अस्मिन् अवसरे जनसामान्यं नेत्रदानस्य प्रति जागरूकं कर्तुं फ्लोरेन्सनर्सिङ्गम
मुख्य चिकित्सा एवं स्वास्थ्य अधिकारी डॉ. यू.एल. कौशिक की अगुवाई में जागरूकता रैली निकाली गई।


धमतरी, 25 अगस्तमासः (हि.स.)।

राष्ट्रियान्धत्वस्य अल्पदृष्टेः च नियन्त्रणकार्यक्रमस्य अन्तर्गतं मङ्गलवासरात् धमतरीजनपदचिकित्सालये राष्ट्रीयनेत्रदानपक्षस्य शुभारम्भः कृतः। अस्मिन् अवसरे जनसामान्यं नेत्रदानस्य प्रति जागरूकं कर्तुं फ्लोरेन्सनर्सिङ्गमहाविद्यालयस्य रिलायन्सनर्सिङ्गसंस्थानस्य च विद्यार्थिभिः विशालः जागरूकतारैली आयोजितः।

मुख्यचिकित्साधिकारी स्वास्थ्याधिकारी च डॉ यू एल कौशिकः तथा सिविलसर्जनः ए के टोण्डरः हरितध्वजं प्रदर्श्य रैलीं प्रस्थापितवन्तौ। रैली नगरस्य प्रमुखमार्गैः अगच्छत्। तस्यां स्वास्थ्यविभागस्य कर्मचारिणः नर्सिङ्गविद्यार्थिनश्च उच्चैः घोषैः हस्तेषु धृताभिः फलकाभिश्च जनानां मध्ये नेत्रदानस्य महत्त्वस्य सन्देशं प्रसारितवन्तः।

रैलीं सम्बोधयन् डॉ कौशिकः अवदत् यत् नेत्रदानं महादानम् अस्ति। देशे स्वच्छपटलान्धतया पीडिताः लक्षशः जनाः नेत्रदानेन नूतनां दृष्टिं प्राप्तुं शक्नुवन्ति।

तेन नेत्रदानं प्रति समाजे प्रचलिताः भ्रान्तयः दूरीकृत्य उक्तं यत् कस्मिन्नपि वयसि वर्तमानः जनः नेत्रदानं कर्तुं शक्नोति। चश्मधारी जनः अपि मधुमेहेन उच्चरक्तचापेन वा पीडितः व्यक्तिरपि नेत्रदानं कर्तुं शक्नोति। तेन जनान् आहूतं यत् ते मृत्योः अनन्तरं स्वनेत्रदानस्य सङ्कल्पं कुर्वन्तु, येन कस्यचित् अन्धकारमयजीवने प्रकाशः आनेतुं शक्येत।

तेन सन्देशः प्रदत्तः — “जीवति रक्तदानम्, मृत्योः अनन्तरं नेत्रदानम्।”

स्वास्थ्यविभागस्य अनुसारं अगस्तमासस्य पञ्चविंशतितः सितम्बरमासस्य अष्टमतिथिपर्यन्तं प्रवर्तमानस्य नेत्रदानपक्षस्य समये जनपदस्य सर्वेषु स्वास्थ्यकेन्द्रेषु जागरूकताशिबिराणि आयोजितानि भविष्यन्ति। तदतिरिक्तं विद्यालयेषु महाविद्यालयेषु च भित्तिपत्रप्रतियोगिता, वीथिनाट्यं, नेत्रदानसङ्कल्पपत्रपूरणम् इत्यादयः विविधाः कार्यक्रमाः आयोजिताः भविष्यन्ति। एतेषाम् आयोजनानां माध्यमेन जनान् नेत्रदानस्य प्रति जागरूकान् कृत्वा अस्य अभियानस्य जनान्दोलनरूपेण विकासं कर्तुं प्रयासः क्रियते।

Hindusthan Samachar / Dheeraj Maithani