Enter your Email Address to subscribe to our newsletters

लखनऊ, 25 अगस्तमासः (हि.स.) बहुजनसमाजपार्टी (बसपा) इत्यस्य राष्ट्रियाध्यक्षा मायावती उक्तवती यत् पंजाब-विधानसभानिर्वाचनं बसपा स्वबलाधारेण एव लडिष्यति। सा उक्तवती यत् गठबन्धनेन निर्वाचनसमझौतेन च तस्याः दलस्य हानिः भवति। स्वकार्यकर्तॄन् प्रति आह्वानं कुर्वती सा उक्तवती यत् विरोधिनां सर्वेषां षड्यन्त्राणां दृढतया सम्मुखीकरणं कुर्वन्तः उत्तमपरिणामस्य सिद्धतां कर्तव्या।
बसपाप्रमुखा मङ्गलवासरे लखनऊस्थिते बसपायाः केन्द्रीयशिबिरकार्यालये पंजाबे भाविनः विधानसभानिर्वाचनस्य सिद्धतायाः समीक्षासभां कृतवती। अस्यां सभायां पंजाबप्रदेशस्य दलपदाधिकारिणः कार्यकर्तारश्च सम्मिलिताः।
सभायाः अनन्तरं मायावती घोषणां कुर्वती उक्तवती यत् पंजाब-उत्तराखण्ड-उत्तरप्रदेशेषु भाविष्यमाणानां विधानसभानिर्वाचनानां कृते सिद्धताः तीव्रतया प्रवर्तिताः सन्ति। सभायां इदमपि निश्चितं यत् दलं कर्मठान् ईमानदारान् च जनान् प्रत्याशिरूपेण नामाङ्कयिष्यति। मायावती उक्तवती यत् बसपा पंजाब-विधानसभानिर्वाचनमपि उत्तरप्रदेश-उत्तराखण्डयोः इव कस्यापि गठबन्धनस्य समझौतेन वा विना स्वबलाधारेण एव लडिष्यति। अस्याः प्रमुखं कारणं निर्वाचनगठबन्धनस्य कारणेन बसपायाः सीटासु मतप्राप्तौ च भवितुं शक्नुवता हान्या रक्षणम् अस्ति। दलस्य कार्यकर्तॄणां मनोबलं न्यूनं भवितुं निवारयितुमपि एतत् आवश्यकम् इति सा उक्तवती।
अपरं च बसपाप्रमुखा दलस्य संस्थापकस्य कांशीरामस्य ९ अक्टोबर्-दिनाङ्के आयोज्यमानस्य पुण्यतिथिकार्यक्रमस्य सिद्धतां कृत्वा तस्य सफलतां सुनिश्चितुं निर्देशं दत्तवती। -----------------
Hindusthan Samachar / Dheeraj Maithani