‘सप्तधारा’ विकसितभारतस्य मार्गचित्रम्, सप्तसु क्षेत्रेषु द्रुतगत्या अग्रे गच्छति देशः - संबितपात्र:
नवदिल्ली, २५ अगस्तमासः (हि.स.)। भारतीयजनतापक्षस्य सांसदः तथा पक्षस्य राष्ट्रीयप्रवक्ता संबितपात्रः काङ्ग्रेसपक्षं लक्ष्यीकृत्य अवदत् यत् पूर्वकेन्द्रीयमन्त्री पी. चिदम्बरम् कदाचित् यूपीआई-व्यवस्थायाः उपहासं कृतवान् आसीत्, किन्तु अद्य तस्याः उपलब्धी
सांसद डॉ संबित पात्रा


नवदिल्ली, २५ अगस्तमासः (हि.स.)। भारतीयजनतापक्षस्य सांसदः तथा पक्षस्य राष्ट्रीयप्रवक्ता संबितपात्रः काङ्ग्रेसपक्षं लक्ष्यीकृत्य अवदत् यत् पूर्वकेन्द्रीयमन्त्री पी. चिदम्बरम् कदाचित् यूपीआई-व्यवस्थायाः उपहासं कृतवान् आसीत्, किन्तु अद्य तस्याः उपलब्धीनां सङ्ख्यात्मकानि तथ्याङ्कानि सम्पूर्णस्य विश्वस्य समक्षम् उपलभ्यन्ते। सः अवदत् यत् राहुलगान्धी सम्भवतः एताः उपलब्धीः अवगन्तुं न शक्नुयात्।

संबितपात्रः अवदत्— “अद्य यूपीआई इत्यस्य दशवर्षाणि पूर्णानि जातानि, तथा च इयं व्यवस्था विश्वस्य बृहत्तमा वास्तविककालिक-प्रदानव्यवस्था अभवत्।” सः अवदत् यत् दशवर्षेभ्यः पूर्वं यदा प्रधानमन्त्री नरेन्द्रमोदी यूपीआई-व्यवस्थायाः परिकल्पनां प्रस्तुतवान्, तदा काङ्ग्रेसपक्षस्य नेतारः तस्याः उपहासम् अकुर्वन्, किन्तु अद्य सा एव व्यवस्था अङ्कीय-प्रदानक्षेत्रे भारतस्य महत्तमा सफलता अभवत्।

सः वार्ताहरसम्मेलनं सम्बोधयन् अवदत् यत् अगस्तमासस्य १५ दिनाङ्के रक्तदुर्गस्य प्राचीरात् प्रधानमन्त्री देशस्य समक्षं ‘सप्तधारा’ इति दृष्टिकोणं प्रस्तुतवान्। एतत् विकसितभारतस्य निर्माणस्य मार्गचित्रम् अस्ति। कस्यापि देशस्य प्रगतये स्पष्टलक्ष्यस्य आवश्यकता भवति तथा च उचितसमये उचितनेतृत्वमेव देशस्य उज्ज्वलभविष्यस्य आधारशिलां स्थापयति। सः अवदत् यत् ‘सप्तधारा’ इत्यस्य अन्तर्गतं विनिर्माणशक्तिः, कृषिः खाद्यप्रसंस्करणं च, प्रौद्योगिकी नवाचारश्च, हरितनील-अर्थव्यवस्था, मृदुशक्तिः, गतिशक्तिः तथा रक्षाशक्तिः इत्येतेषु सप्तसु प्रमुखक्षेत्रेषु विशेषं ध्यानं दीयते।

सः अवदत् यत् विनिर्माणक्षेत्रे सुदृढायाः स्वदेशीय-मूल्यशृङ्खलायाः, दोषरहित-उत्पादानां तथा विश्वस्तरीय-उत्पादानां निर्माणे बलं दीयते। कृषिक्षेत्रे दलहन-तिलहनयोः उत्पादनं, जैविककृषिः तथा कृषकेभ्यः अल्पमूल्येन उर्वरकाणां उपलब्धता इत्येताभ्यः दिशाभ्यः कार्यं प्रचलति। पात्रः अवदत् यत् भारतः अन्तरिक्षक्षेत्रे, क्वाण्टम्-प्रौद्योगिक्यां, कृत्रिमबुद्धिमत्तायां तथा दत्तांशकेन्द्रेषु च द्रुतगत्या अग्रे गच्छति। यूपीआई इत्यस्य दशवर्षाणां पूर्तेः उल्लेखं कुर्वन् सः अवदत् यत् इयं व्यवस्था विश्वस्य बृहत्तमा वास्तविककालिक-प्रदानव्यवस्था अभवत्।

सः अवदत् यत् हरितनील-अर्थव्यवस्थायाः, योगस्य, आयुर्वेदस्य, सांस्कृतिकपर्यटनस्य, चलचित्रस्य, वी.एफ.एक्स् तथा क्रीडनक-प्रौद्योगिक्याः क्षेत्राणां माध्यमेन भारतस्य वैश्विकपरिचयः सुदृढः भवति। तथैव द्रुतगति-रेलयानसेवायाः, आधुनिक-राजमार्गाणां, अन्तर्देशीय-जलमार्गाणां तथा स्वदेशीय-रक्षा-उत्पादनस्य विस्तारस्य माध्यमेन विकसितभारतस्य लक्ष्यं गतिं प्राप्यते।

Hindusthan Samachar / Divya Ranjan