Enter your Email Address to subscribe to our newsletters

रायपुरम्, 25 अगस्तमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः अद्य मङ्गलवासरे बालोदजनपदस्य विकासखण्डमुख्यालये डौण्डीलोहारा इत्यत्र लालरघुवीरसिंहक्रीडाङ्गणे आयोजिते बिहानदीदी स्वसहायतासमूहम् सम्मानसमारोहे महतारीवन्दनायोजनायाः एकत्रिंशतितमां किस्तं प्रदास्यति।
अस्मिन् अवसरे राज्यस्य ६७ लक्ष २८ सहस्र ९१८ पात्रमहिलानां बैंकखातेषु प्रत्यक्षलाभान्तरणव्यवस्थया अर्थात् डीबीटी माध्यमेन ६३१ कोटि ३८ लक्ष ३७ सहस्र ७०० रुप्यकाणां राशिः प्रेषयिष्यते।
रक्षाबन्धनपर्वणः पूर्वं मुख्यमन्त्री सायः महिलाभ्यः सितम्बरमासस्य किस्तीं अग्रिमरूपेण प्रदास्यति। सामान्यतः सितम्बरमासस्य किस्तस्य भुगतानं सितम्बरमासे एव करणीयम् आसीत्, किन्तु भगिनीभ्यः उत्सवस्य उपहारं प्रदातुम् उद्दिश्य राज्यसर्वकारेण तस्याः पूर्वमेव प्रेषणस्य निर्णयः कृतः अस्ति।
उल्लेखनीयं यत् महतारीवन्दनायोजनायाः माध्यमेन महिलाभ्यः प्रतिमासं आर्थिकसहायता प्रदीयते, येन तासां सामाजिक आर्थिकसशक्तीकरणस्य सह स्वास्थ्यस्य, पोषणस्य, परिवारस्य आवश्यकतानां च पूर्तौ सहयोगः प्राप्यते। योजनया प्राप्तां राशिं बह्व्यः महिलाः पुत्रीणां भविष्याय सुकन्यासमृद्धियोजनायां निवेशरूपेण तथा विभिन्नेषु आजीविकासम्बद्धेषु कार्येष्वपि उपयुञ्जते।
राज्यसर्वकारस्य अनुसारं महतारीवन्दनायोजनायाः अन्तर्गतं अद्यावधि त्रिंशत् किस्तिषु महिलाभ्यः समग्ररूपेण १९ सहस्र ४४४ कोटि रुप्यकाणां सहायतराशिः प्रदत्ता अस्ति। मङ्गलवासरे प्रदास्यमानया एकत्रिंशत्तमया किस्त्या सह योजनायाः लाभः राज्यस्य लक्षशः महिलाभ्यः निरन्तरं प्राप्यमाणः भविष्यति।
Hindusthan Samachar / Dheeraj Maithani