Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 25 अगस्तमासः (हि.स.)।काङ्ग्रेस-महासचिवः जयरामरमेशः केन्द्रसर्वकारं लक्ष्यीकृत्य आरोपं कृतवान् यत् यस्मिन् प्रकारेण जातिगणना क्रियते, सा केवलं ‘श्वेतप्रक्षालनम्’ (White Wash) एव अस्ति तथा च काङ्ग्रेसः तां न स्वीकरिष्यति। जयरामरमेशः जातिगणनायाः वर्तमानप्रक्रियायाः निरसनस्य आग्रहं कुर्वन् उक्तवान् यत् बिहार-तेलङ्गानयोः स्वीकृतं सर्वेक्षणप्रतिरूपं राष्ट्रियस्तरे कार्यान्वितं भवेत्।
जयरामरमेशः अद्य अत्र काङ्ग्रेस-मुख्यालये आयोजितायां वार्ताहरसम्मेलने उक्तवान् यत् २० अगस्तदिनाङ्के काङ्ग्रेसाध्यक्षः मल्लिकार्जुनखरगे तथा लोकसभायां विपक्षनेता राहुलगान्धी च प्रधानमन्त्री नरेन्द्रमोदिने जातिगणनासम्बन्धे २१ पृष्ठात्मकं संयुक्तपत्रं प्रेषितवन्तौ। अस्मिन् विषये प्रधानमन्त्रीं प्रति काङ्ग्रेसस्य पक्षतः प्रेषितमिदं तृतीयं पत्रम् अस्ति। इतः पूर्वम् अपि १६ अप्रैल् २०२३ तथा ५ मई २०२५ दिनाङ्कयोः खरगे महोदयेन पत्रे प्रेषिते, किन्तु अद्यावधि कस्मादपि पत्रात् उत्तरं न प्राप्तम्।
सः उक्तवान् यत् दलं निरन्तरं आग्रहं करोति यत् अस्मिन् विषये सर्वेषां राजनैतिकदलानां राज्यसर्वकाराणां च सह चर्चा भवेत् तथा सामाजिकन्यायं दृष्ट्वा जनगणना आयोज्येत। सः आरोपितवान् यत् मोदी-सर्वकारः जानबूझकर अस्मिन् विषये मौनं धारयति तथा ईमानदारीपूर्वकं जातिगणनां कर्तुम् इच्छुकः नास्ति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani