Enter your Email Address to subscribe to our newsletters





बीकानेरम्, 25 अगस्तमासः (हि.स.)।
‘लघुकाशी तीज-महोत्सवः २०२६’ हर्षोल्लासेन पारम्परिकोत्साहेन च सम्पन्नः अभवत्। रानीबाजार-औद्योगिकक्षेत्रे रिद्धिसिद्धिपैलेस इति स्थाने आयोजिते कार्यक्रमे महिलाः पारम्परिकवस्त्रेषु उत्साहपूर्वकं भागं गृहीत्वा विविधासु सांस्कृतिकासु मनोरञ्जकासु च प्रतियोगितासु स्वप्रतिभां प्रदर्शितवत्यः। कैटवॉक्, सावन-क्वीन्, विविधक्रीडाः अन्याः च प्रतियोगिताः सम्पूर्णं कार्यक्रमं जीवन्ततया परिपूर्णं कृतवत्यः। कार्यक्रमस्य अन्ते सर्वाभ्यः प्रतिभागिनीभ्यः आकर्षकाणि प्रत्युपहाराणि प्रदत्तानि, तानि प्राप्य तासां मुखेषु प्रसन्नता विलसिता अभवत्।
कार्यक्रमे ब्रह्मगायत्रीसेवाश्रमस्य अधिष्ठाता पण्डितः रामेश्वरानन्दजी पुरोहितः (दाताश्री), मेडिकल्-एस्ट्रोलॉजर्, वास्तु-परामर्शदाता, प्रेरणावक्ता, योगप्रशिक्षिका तथा ‘बेटी बचाओ–बेटी पढ़ाओ’ अभियानस्य जोधपुरस्य ब्राण्ड्-एम्बेसडर् डॉ. मोनिका आर. करल, महावीर-इण्टरनेशनल् वीरा-केन्द्रस्य नोखा-बीकानेरस्य अध्यक्षा सरला अग्रवाल, नोखा-तहसीलदार् सुनीता चारण, जनसम्पर्कविभागस्य बीकानेरस्य उपनिदेशकः हरिशंकर आचार्यः, फोर्ट्-स्कूलस्य प्रधानाचार्या तथा सरस्-फाउण्डेशनस्य स्वामिनी पिङ्की शर्मा, समाजसेवी विनोद गोयलः, समाजसेवी अरविन्द मिद्धा, समाजसेवी डॉ. पूजा मोहताः, महिला-गृहिणी डिम्पल गांधी, अर्हम्-इंग्लिश्-अकादम्याः निदेशकः सुरेन्द्र डागा, समाजसेवी राज खजाञ्ची तथा नेल्-आर्ट्-स्टूडियोस्य प्रमुखा जाह्नवी सोनी अतिथिरूपेण उपस्थिताः आसन्।
अतिथयः आयोजकानां प्रशंसां कुर्वन्तः अवदन् यत् एतादृशाः आयोजनाः महिलाभ्यः स्वप्रतिभाप्रदर्शनस्य, आत्मविश्वासवर्धनस्य तथा सामाजिकसहभागितायाः अवसरं प्रददति। तैः तीजादीनां पारम्परिकपर्वणां आधुनिकरूपेण आयोजनस्य एषा पहल प्रशंसनीया इति उक्तम्।
कार्यक्रमस्य समये प्रतिभागिन्यः पारम्परिकगीतानां प्रस्तुतीकरणेन सम्पूर्णं वातावरणं मनोरमं कृतवत्यः। कैटवॉक् तथा सावन-क्वीन् प्रतियोगितयोः प्रतिभागिन्यः आत्मविश्वासपूर्णया आकर्षकप्रस्तुत्या दर्शकानां मनांसि विजितवत्यः। सम्पूर्णे आयोजने उत्साहः, उमङ्गः तथा पारिवारिकं वातावरणं स्पष्टतया दृश्यते स्म।
आयोजिका रेनू जोशी सर्वेभ्यः अतिथिभ्यः, प्रतिभागिभ्यः सहयोगिभ्यश्च कृतज्ञतां प्रकटयन्ती अवदत् यत् भविष्येऽपि महिलानां कृते एतादृशाः रचनात्मकाः सांस्कृतिकाश्च कार्यक्रमाः निरन्तरं आयोजयिष्यन्ते। कार्यक्रमस्य सफलं सञ्चालनं नीलम शर्मणा कृतम्।
---------------
Hindusthan Samachar / Dheeraj Maithani