४५० कोटिरूप्यकेभ्यः अधिकेन निवेशेन २२५० तः अधिकाः रोजगारावसराः सृज्यन्ते
भोपालम्, २५ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः बुधवासरे, २६ अगस्तमासे, भिण्डजनपदस्य औद्योगिकक्षेत्रे मालनपुरे गॉदरेज कन्ज्यूमर प्रोडक्ट्स लिमिटेड् इत्यस्याः विस्तारितायाः चतुर्थविनिर्माण-विभागस्य शुभारम्भं करिष्यति। विभागस्
मुख्यमंत्री डॉ. मोहन यादव (फाइल फोटो)


भोपालम्, २५ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः बुधवासरे, २६ अगस्तमासे, भिण्डजनपदस्य औद्योगिकक्षेत्रे मालनपुरे गॉदरेज कन्ज्यूमर प्रोडक्ट्स लिमिटेड् इत्यस्याः विस्तारितायाः चतुर्थविनिर्माण-विभागस्य शुभारम्भं करिष्यति। विभागस्य विस्ताराय ४५० कोटिरूप्यकेभ्यः अधिकः निवेशः कृतः अस्ति। अनेन मालनपुरे उत्पादनक्षमता वर्धयिष्यते तथा च २२५० तः अधिकाः नूतनाः रोजगारावसराः सृज्यन्ते।

जनसम्पर्काधिकारिणी बबिता मिश्रा मङ्गलवासरे अवदत् यत् कार्यक्रमे मुख्यमन्त्री डॉ. यादवः लोकनिर्माणविभागे नियुक्तिनां प्रमाणपत्राणि अपि वितरिष्यति। अस्मिन् अवसरे श्रम-मन्त्रिणा, पंचायत-ग्रामीणविकासमन्त्रिणा च भिण्डजनपदस्य प्रभारीमन्त्रिणा प्रह्लादसिंहपटेलेन, नवीन-नवीकरणीय-ऊर्जामन्त्रिणा राकेशशुक्लेन सह अन्ये जनप्रतिनिधयः गॉदरेज-समूहस्य वरिष्ठाधिकारिणश्च उपस्थिताः भविष्यन्ति।

सा अवदत् यत् विस्तारस्य अन्तर्गतं प्रतिघण्टं १० मेट्रिकटनक्षमतायुक्तं निरन्तर-सैपोनिफिकेशन-संयन्त्रं तथा प्रतिमिनिटं २१७ बण्डल्-क्षमतायुक्ता स्वचालित-पैकेजिङ्-व्यवस्था स्थाप्यमाना अस्ति। तेन सह प्रतिवर्षं ४२ कोटि-केशरङ्ग-सैशे, १४ कोटि-मच्छरनिरोधक-उत्पादाः तथा १० कोटि-वायुप्रसाधक-सैशे इत्येतेषां उत्पादनक्षमता विकसिताः भविष्यन्ति। केशक्रीम-उत्पादनस्य क्षमता प्रतिवर्षं ७३०० मेट्रिकटनपरिमिता भविष्यति। अनेन भिण्डस्य समीपवर्ति-क्षेत्राणां च युवभ्यः रोजगारावसराः प्राप्स्यन्ते तथा च स्थानीयस्तरे औद्योगिकक्रियाकलापानां प्रोत्साहनं भविष्यति। विस्तारानन्तरं राज्येन प्रतिवर्षं प्रायः १८५ कोटिरूप्यकाणां अतिरिक्तं केन्द्रीयवस्तुसेवाकरं तथा राज्यवस्तुसेवाकररूपेण राजस्वं प्राप्तुं शक्यते इति सम्भाव्यते।

गॉदरेज्-संस्थया उत्पादनविस्तारेण सह पर्यावरणसंरक्षणेऽपि विशेषं ध्यानं दीयते। डॉव् जोन्स् सस्टेनेबिलिटी इण्डेक्स् इत्यस्य अनुसारं गॉदरेज कन्ज्यूमर प्रोडक्ट्स् विश्वस्य द्वितीयेषु सर्वाधिकस्थायित्वयुक्तेषु एफ्.एम्.सी.जी. उद्यमेषु अन्तर्भवति। मालनपुरस्थे संयन्त्रे शून्य-द्रव-अपशिष्ट-उत्सर्जन-व्यवस्थया सह २०४ किलोवाट्-क्षमतेन छादन-सौरऊर्जासंयन्त्रं स्थापितं भविष्यति।

गॉदरेज् कन्ज्यूमर् प्रोडक्ट्स् लिमिटेड् इत्येषा संस्था १९९१ तमवर्षात् मालनपुरे सञ्चालिता अस्ति। औद्योगिकक्षेत्रे स्थितं संस्थायाः संयन्त्रं ६५ एकर-परिमिते क्षेत्रे विस्तृतम् अस्ति। अत्र अधुना यावत् ८५० कोटिरूप्यकाणां सञ्चितनिवेशः कृतः अस्ति। त्रिंशदधिकवर्षाणां काले एतत् संयन्त्रं गॉदरेज-संस्थायाः विनिर्माण-व्यवस्थायाः महत्त्वपूर्णकेन्द्ररूपेण विकसितम् अस्ति। अत्र फेनकम्, केशरङ्गः, गृहकीटनाशकानि च इत्यादीनां विविधोत्पादानां निर्माणं क्रियते।

जनसम्पर्काधिकारिणी अवदत् यत् नूतनायाः चतुर्थविनिर्माण-विभागस्य विस्तारात् मालनपुर-संयन्त्रस्य उत्पादन-क्षमतायां महत्त्वपूर्णा वृद्धिः भविष्यति। सम्प्रति अत्र प्रतिवर्षं १ लक्ष ५० सहस्रं मेट्रिकटनपरिमितानां साबुन-नूडल्स्-उत्पादनस्य तथा ७० सहस्रं मेट्रिकटनपरिमितानां निर्मित-शौचालय-फेनकस्य उत्पादनस्य क्षमता अस्ति। विस्तारानन्तरं फेनक-नूडल्स-उत्पादन-क्षमता वर्धित्वा २ लक्ष-मेट्रिकटनपरिमिता भविष्यति तथा निर्मित-साबुनस्य उत्पादनक्षमता प्रतिवर्षं १ लक्ष २० सहस्र-मेट्रिकटनपरिमिता भविष्यति। एवं समग्र-उत्पादनक्षमता प्रतिवर्षं ३ लक्ष २० सहस्र-मेट्रिकटनपरिमिता भविष्यति। अनेन मालनपुर-संयन्त्रं एशियायाः सर्वबृहद् एकीकृत-साबुन-विनिर्माण-विभागस्य भविष्यदिशि अग्रसरिष्यति।

Hindusthan Samachar / Divya Ranjan