Enter your Email Address to subscribe to our newsletters

इतिहासे अगस्तमासस्य षड्विंशतितमा तिथिः मानवतायाः, सेवायाः, करुणायाश्च प्रतीकरूपेण प्रसिद्धायाः मदर टेरेसा इत्यस्याः जन्मदिवसरूपेण विशेषमहत्त्वं धारयति। १९१० तमे वर्षे अगस्तमासस्य षड्विंशतितमे दिनाङ्के जाता मदर टेरेसा स्वसम्पूर्णं जीवनं निर्धनानां, रोगिणाम्, अनाथानां निराश्रितानाञ्च सेवायै समर्पितवती। मानवसेवायां तस्याः असाधारणयोगदानस्य कारणेन सा सम्पूर्णे विश्वे सम्मानं प्राप्तवती। भारतेन सा देशस्य सर्वोच्चनागरिकसम्मानेन ‘भारतरत्नेन’ सम्मानिता, विश्वस्तरे च तस्याः मानवतावादिकार्याणां कृते तस्यै ‘नोबेलशान्तिपुरस्कारः’ प्रदत्तः।
मदर टेरेसा इत्यस्याः जीवनं प्रेरयति यत् वास्तविकं माहात्म्यं परेषां दुःखवेदनाम् अवगत्य तेषां निःस्वार्थसेवायां वर्तते। सा कोलकातानगरं स्वकर्मभूमिं कृत्वा आवश्यकताग्रस्तानां जनानां साहाय्यार्थं स्वजीवनं समर्पितवती।
महत्त्वपूर्णघटनाचक्रम्
१३०३ अलाउद्दीन खिलजी इत्यनेन चित्तौडगढदुर्गः अधिकृतः।
१९१० नोबेलशान्तिपुरस्कारेण सम्मानितायाः मदर टेरेसा इत्यस्याः युगोस्लावियादेशे जन्म अभवत्।
१९१४ बङ्गालस्य क्रान्तिकारिभिः कलकत्तानगरे ब्रिटिशशस्त्रभाण्डारे आक्रमणं कृत्वा ५० माउजरशस्त्राणि ४६ सहस्राणि च गोलिकाः लुण्ठिताः।
१९२० अमेरिकादेशे महिलाभ्यः मतदानाधिकारः प्राप्तः।
१९५५ प्रथमवारं टेनिसक्रीडायाः वर्णयुक्तं दूरदर्शनप्रसारणम् अभवत्।
१९७७ जर्मनीदेशस्य म्यूनिखनगरे विंशतितमस्य ओलम्पिकक्रीडामहोत्सवस्य शुभारम्भः अभवत्।
१९७८ जॉन पॉल रोमनकैथोलिकचर्चस्य पोपपदं प्राप्तवान्।
१९८२ नासा संस्थया टेलीसेट एफ इत्यस्य प्रक्षेपणं कृतम्।
१९८८ म्यांमारदेशस्य अहिंसावादिनी नेत्री आंग सान सू ची आन्दोलनस्य नेतृत्वं कुर्वती रंगूननगरं प्राप्तवती।
१९९९ माइकल जॉनसन इत्यनेन ४०० मीटरपरिमितायां धावनस्पर्धायां विश्वकीर्तिमानः स्थापितः।
२००१ बाङ्ग्लादेशस्य पूर्वप्रधानमन्त्री कारागारं प्रेषितः।
२००२ दक्षिणाफ्रिकादेशस्य जोहानिसबर्गनगरे दशदिवसीयस्य पृथ्वीशिखरसम्मेलनस्य शुभारम्भः अभवत्।
२००८ तेलुगुचलच्चित्रजगतः प्रसिद्धः अभिनेता चिरञ्जीवी स्वस्य नवीनराजनैतिकदलस्य ‘प्रजा राज्यम्’ इत्यस्य शुभारम्भं कृतवान्।
२०१३ फिलीपीन्सदेशे विकाससहायताकोषे जातं भ्रष्टाचारम् अधिकृत्य विरोधप्रदर्शनानि अभवन्।
२०१५ अमेरिकादेशस्य वर्जीनियाराज्ये द्वौ पत्रकारौ गोलिकाप्रहारेण हतौ।
जन्म
१८९१ चतुरसेन शास्त्री हिन्दी साहित्यस्य प्रसिद्धः उपन्यासकारः।
१९२७ बंसीलालः हरियाणाराज्यस्य पूर्वमुख्यमन्त्री स्वतन्त्रतासेनानी च।
१९२७ बालकृष्ण विट्ठलदास दोशी भारतस्य प्रसिद्धः वास्तुविद्।
१९२८ ओम प्रकाश मुंजल हीरो साइकिल्स इत्यस्य सहसंस्थापकः भारतीयः उद्योगपतिः समाजसेवकश्च।
१९५१ लुइजिन्हो फलेरो भारतीयराष्ट्रीयकाङ्ग्रेसस्य राजनीतिज्ञः गोवाराज्यस्य पूर्वमुख्यमन्त्री च।
१९५६ मेनका गांधी प्रसिद्धा राजनीतिज्ञा, संजय गांधी इत्यस्य पत्नी पश्वधिकारकार्यकर्त्री च।
१९६८ मधुर भंडारकरः चलच्चित्रनिर्माता निर्देशकश्च।
१९७२ इंद्र कुमारः भारतीयहिन्दीचलच्चित्रजगतः प्रसिद्धः सहायकाभिनेता।
१९७३ इंदर कुमारः अभिनेता।
१९८० नीरू बाजवा अभिनेत्री।
१९८७ जीतू राय भारतीयः लक्ष्यवेधकः।
निधनम्
१९३४ अतुल प्रसाद सेन प्रसिद्धः विधिवेत्ता, शिक्षाप्रेमी, रचनाकारः तथा बाङ्ग्लाभाषायाः प्रसिद्धः कविः सङ्गीतकारश्च।
१९४८ कृष्णजी प्रभाकर खाडिलकरः प्रसिद्धः भारतीयः मराठीलेखकः नाटककारश्च।
१९६३ राधेश्याम कथावाचकः पारसीरङ्गमञ्चशैल्याः प्रमुखेषु हिन्दीनाटककारेषु अन्यतमः।
१९७५ एन एस हार्डिकरः प्रसिद्धः स्वतन्त्रतासेनानी ‘हिन्दुस्तानी सेवादल’ इत्यस्य संस्थापकश्च।
२०११ के ए दिनशा चिकित्साक्षेत्रे महत्त्वपूर्णं योगदानं कृतवती प्रसिद्धा महिला।
२०१२ ए के हंगलः प्रसिद्धः अभिनेता दूरदर्शनकलाकारश्च।
महत्त्वपूर्णावसराः
राष्ट्रियनेत्रदानपक्षः
महिलासमानतादिवसः
Hindusthan Samachar / Dheeraj Maithani