Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २५ अगस्तमासः (हि.स.)। भारतं संयुक्तराष्ट्रस्य मरुस्थलीकरण-निवारणसम्बन्धिनः अभिसन्धेः सप्तदशे पक्षसम्मेलने वैश्विकस्तरे शुष्कतायाः सामनायै रणनीतौ परिवर्तनस्य आह्वानं कृतवान्। केन्द्रीयपर्यावरण-वन-जलवायुपरिवर्तन-मन्त्री भूपेन्द्रयादवः अवदत् यत् शुष्कतां पुनः पुनः आगच्छन्तीं आपदां मत्वा केवलं साहाय्यं प्रदातुं स्थाने तां पूर्वानुमेयां निवारयितुं शक्यं च समस्यारूपेण द्रष्टव्यम्।
मङ्गोलियादेशस्य उलानबातारनगरे आयोजिते ‘शुष्कतायाः सामनायै उपायानां तीव्रीकरणम्’ इति विषये मन्त्रीस्तरीये संवादे सम्बोधनं कुर्वन् यादवः अवदत् यत् शुष्कता अधुना केवलं ऋतुसम्बद्धा घटना नास्ति, अपितु सा जलसुरक्षायै, खाद्यव्यवस्थायै, जैवविविधतायै आर्थिक-स्थैर्याय च महती समस्या अभवत्।
सः अवदत् यत् वैश्विकं लक्ष्यं “प्रतिक्रियायाः पूर्वं सज्जता, सङ्कटप्रबन्धनस्य पूर्वं निवारणं, पुनर्बहालीपूर्वं च प्रत्यास्थता” इति भवितव्यम्।
मन्त्री अवदत् यत् भारतं शुष्कतायाः समक्षं कर्तुं वर्षामापनम्, उपग्रहनिर्भरं शुष्कतामूल्याङ्कनम्, प्रारम्भिकसञ्चेतना तथा केन्द्र-राज्यस्तरे समन्वितसज्जतायाः उपायान् करोति। अस्य उद्देश्यम् अस्ति यत् शुष्कतायाः स्थितिः सङ्कटरूपं धारयितुं पूर्वमेव आवश्यकाः उपायाः क्रियेरन्।
जलस्य भूमेश्च परस्परसंबन्धे बलं दत्त्वा सः अवदत् यत् वनानां जलग्रहणक्षेत्राणां च संरक्षणेन जलस्य उपलब्धिः वर्धते, मृदाक्षरणं न्यूनं भवति तथा च भूमिगतजलस्य पुनर्भरणे सहायता भवति। भारते नदीपुनरुज्जीवनस्य, पारम्परिक-जलाशयानां संरक्षणस्य तथा जलसंरक्षणस्य दिशायामपि कार्यं प्रचलति।यादवः अवदत् यत् भारतस्य विभिन्नेषु भागेषु समुदायानां सहभागितया निर्झराणां जलपुनर्भरणक्षेत्राणां च संरक्षणं क्रियते। अपरतः वर्षानिर्भरकृषिभूमेः क्षीणीकृत-कृषिभूमेश्च कृते सम्पूर्णदेशे जलग्रहण-क्षेत्रकार्यक्रमाः सञ्चाल्यन्ते।
कृषकेभ्यः शुष्कतासहितेभ्यः अन्याभ्यः समस्याभ्यश्च सुरक्षां प्रदातुं सस्यबीमां महत्त्वपूर्णोपायरूपेण अपि निर्दिष्टम्। तदतिरिक्तं पेयजलापूर्त्या, रोजगारस्य, पशुचारेण तथा आपत्कालीन-जलव्यवस्थया इत्यादिभिः उपायैः सङ्कटकाले दुर्बलवर्गेभ्यः सहायता प्रदीयते।
भारतं विश्वसमुदायं पारिस्थितिकीतन्त्रस्य पुनर्स्थापनायै, सुदृढप्रारम्भिकसंचेतना-व्यवस्थानां विकासाय तथा समन्वितकार्याय अधिकनिवेशं कर्तुम् आहूतवान्। यादवः अवदत् यत् विश्वस्य सर्वाधिकदुर्बलवर्गेभ्यः शुष्कताप्रत्यास्थतायाः निर्माणं केवलं विकल्पः न, अपितु जीवनरक्षणस्य आवश्यकता अस्ति। सः शुष्कतायाः सामनाक्षेत्रे भारतस्य अनुभवस्य क्षमतानां च, विशेषतः प्रारम्भिकसञ्चेतना-व्यवस्थानां, वैश्विकसमुदायेन सह सहभागं कर्तुं भारतस्य प्रतिबद्धतामपि प्रकटितवान्।
Hindusthan Samachar / Divya Ranjan