Enter your Email Address to subscribe to our newsletters

कटिहारः, 25 अगस्तमासः (हि.स.)।
जिल्लायां ४१तमस्य राष्ट्रिय-नेत्रदान-पक्षस्य अन्तर्गते मङ्गलवासरे जागरूकता-कार्यक्रमस्य शुभारम्भः कृतः। दिव्याङ्गजनानां प्रेरणादायक-सहभागितया प्रारब्धस्य अस्य अभियानस्य मुख्योद्देश्यं मरणोत्तर-नेत्रदानस्य प्रति जनजागरूकतां प्रसारयितुं तथा अधिकाधिकान् जनान् संकल्पपत्रं पूरयित्वा अस्मिन् पुण्यकार्ये संयोजयितुम् अस्ति।
कार्यक्रमस्य मुख्यवक्ता बिहार-सर्वकारस्य समाजकल्याण-विभागस्य राज्य-सलाहकार-मण्डलस्य सदस्यः शिवशङ्कर-रमणी उपस्थितान् जनान् सम्बोधयन् अवदत् यत् मृत्योः पश्चात् कृतं नेत्रदानं दृष्टिबाधितस्य व्यक्तेः जीवने नवप्रकाशं आनेतुं शक्नोति। तेन समाजस्य सर्वेषां वर्गाणां, विशेषतः दिव्याङ्गजनानां, अस्मिन् अभियाने सक्रिय-भूमिकां निर्वोढुं तथा संकल्पपत्रं पूरयित्वा नेत्रदानस्य संकल्पं कर्तुं आह्वानं कृतम्।
कार्यक्रमस्य विधिवत् उद्घाटनं वासुदेव-नायकः, डॉ. अवधेश-देवः तथा जयप्रकाश-बारिकः संयुक्तरूपेण कृतवन्तः। उद्घाटनकर्ता वासुदेव-नायकः नेत्रदानं महत्तमं सामाजिक-सेवाकार्यम् इति कथयन् तस्य प्रति जागरूकतां प्रसारयितुं आह्वानं कृतवान्। अपरतः डॉ. अवधेश-देवः अवदत् यत् नेत्रदानेन आवश्यकतावतो जनस्य अन्धकारमयजीवनं प्रकाशमयं करणमेव मानवतायाः सच्ची सेवा अस्ति।
विशिष्टातिथिः जयप्रकाश-बारिकः अभियानस्य रूपरेखां प्रस्तुत्य अवदत् यत् एतत् नेत्रदान-पखवाड़कं २५ अगस्त्-तः ८ सितम्बर् २०२६ पर्यन्तं सञ्चालितं भविष्यति। अस्य अन्तर्गतं विविध-गतिविधीनां माध्यमेन व्यापकस्तरे जनजागरूकता प्रसारिता भविष्यति।
कार्यक्रमस्य समापनावसरे शिवशङ्कर-रमणी उपस्थितानां जनानां समाजसेविनां च प्रति आभारं व्यक्तवान्। अस्मिन् अवसरे संस्थायाः जिला-मीडिया-प्रभारी विजयकुमारः, जुली-शर्मा, रविकुमार-दासः, आशा-आण्टी, मुन्ना-साहः, गोपाल-साहः, राजीवकुमार-सिंहः, लेलूमण्डलः, लक्ष्मीदेवी, मोसमात्-प्रमिला, बैजनाथ-यादवः, गङ्गा-यादवः, रञ्जना-कुमारी, राणाकुमारः तथा जितेन्द्रकुमारः सहिताः बहवः कार्यकर्तारः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani