Enter your Email Address to subscribe to our newsletters

फर्रुखाबादम्, २५ अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य फर्रुखाबादजनपदे महाभारतकालीन-पाण्डेश्वरनाथमन्दिरे प्रचलितायाः नवदिवसीयायाः श्रीराम-कथायाः मङ्गलवासरे विधिविधानपूर्वकं समापनम् अभवत्। कथासमापनस्य अवसरे प्रसादरूपेण तुलसीपादपाः वितरिताः। अन्तिमे दिवसे मुख्ययजमानौ बकासिंहराठौरः किरण-राठौरश्च आस्ताम्।
कथाव्यासः आचार्यः मदनमुरारीमिश्रः भगवत: श्रीरामस्य वनवासात् अयोध्यां प्रति प्रत्यागमनस्य दिव्यं प्रसङ्गं वर्णितवान्। भगवान् श्रीरामः चतुर्दशवर्षीयं वनवासं पूर्णं कृत्वा सीतया लक्ष्मणेन च सह पुष्पकविमानेन अयोध्यां प्रत्या-गतवान्। तदा सम्पूर्णा अयोध्यानगरी दीपैः प्रकाशिता अभवत्। भरतः नन्दिग्रामे भगवतः चरणपादुकयोः पूजनं कृत्वा राज्यभारं स्वीकृतवान् आसीत्। भगवतः आगमने भरत-मिलापस्य करुणमयेन दृश्येन सर्वे भावुकाः अभवन्। गुरुः वसिष्ठमुनिः सर्वप्रथमं भगवत: श्रीरामस्य राज्याभिषेकं कृतवान्। देवताभिः पुष्पवृष्टिः कृता, अयोध्यावासिभिश्च ‘जय श्रीराम’ इति जयघोषेण आकाशं निनादितम्। भगवान् रामस्य राजा अभवनेन रामराज्यस्य स्थापना अभवत्, यत्र सर्वे सुखिनः निरोगाश्च आसन्।
तदनन्तरं भगवत: श्रीरामस्य राज्याभिषेकः, पूजनम्, महाआरती, प्रसादवितरणं च कृत्वा कथायाः समापनम् अभवत्।
अस्मिन् अवसरे श्रद्धाराणी-संस्थया संस्थायाः अध्यक्षेण सञ्जयगर्गेण, श्यामजीगर्गेण तथा अतिथिसभासद्भिः मीरासिंहेन, ममतासक्सेना, श्वेतादुबे, अनुशुक्ला, सुदेशदुबे इत्येतैः कथाव्यासः आचार्यः मदनमुरारीमिश्रः स्मृतिचिह्नेन तुलसीपादपेन च सम्मानितः।
अध्यक्षः सञ्जयगर्गः प्रतिभामिश्रां तुलसी-पादपेन सम्मानितवान्। ततः सर्वेभ्यः श्रद्धालुभक्तेभ्यः अपि पर्यावरणसंरक्षणस्य सङ्कल्पेन तुलसीपादपाः प्रदत्ताः।
अस्मिन् अवसरे सहाचार्यः अखिलपाण्डे, भगवान्स्वरूपदीक्षितेन सह बहुसंख्यकाः श्रद्धालुभक्ताः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan