Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 25 अगस्तमासः (हि.स.)। ‘‘अधुना दायित्वं नवसंततेः हस्तेषु समर्पयितुं’ सम्बद्धस्य केन्द्रीयमार्गपरिवहन-राजमार्गमन्त्री नितिनगडकरीवर्यस्य वक्तव्यस्य राजनैतिकपरिवर्तनैः सह सम्बन्धं स्थापयित्वा क्रियमाणानाम् अटकलानां मध्ये तस्य कार्यालयेन एतस्य खण्डनं कृतम्। कार्यालयेन उक्तं यत् गडकरीवर्येण एतद्वचनं मानकर-न्यासस्य सन्दर्भे उक्तम् आसीत्।
गडकरीवर्यस्य कार्यालयस्य पक्षतः मङ्गलवासरे निर्गते वक्तव्ये उक्तं यत् गडकरीवर्येण एषा टिप्पणी तेन स्थापितस्य लक्ष्मणरावमानकरन्यासस्य कार्यप्रणालीं तस्य भविष्यस्य नेतृत्वं च उद्दिश्य कृता आसीत्। वक्तव्ये उक्तं यत् लक्ष्मणरावमानकरन्यासः आदिवासीक्षेत्रेषु एकलविद्यालयानां सञ्चालनं करोति। अस्मिन्नेव सन्दर्भे गडकरीवर्येण उक्तम् आसीत् यत् सः अधुना पूर्ववत् अधिकं कार्यं कर्तुं न शक्नोति तथा युवा पीढ्यै अधिकं दायित्वं स्वीकर्तुं अग्रे कार्यं कर्तुं च अवसरः प्रदातव्यः।
गडकरीवर्यस्य कार्यालयेन उक्तं यत् कतिपयैः माध्यमसंस्थाभिः एषा टिप्पणी वास्तविकसन्दर्भात् पृथक्कृत्य राजनैतिकवक्तव्यरूपेण प्रस्तुतिता, यत् अनुचितम् अस्ति। वक्तव्ये उक्तं यत् तस्य कथनं स्पष्टतया न्यासस्य कार्यप्रणाल्या भविष्यस्य नेतृत्वेन च सम्बद्धम् आसीत् तथा अस्य किमपि राजनैतिकसन्दर्भः नासीत्।
उल्लेखनीयं यत् नागपुरे आयोजिते ‘एकलव्य-एकलविद्यालय-शिक्षक-पर्यवेक्षक-प्रशिक्षणवर्ग’ इति कार्यक्रमे गडकरीवर्येण उक्तमासीत् यत् सः पूर्ववत् अधिकं कार्यं कर्तुं न शक्नोति तथा अधुना दायित्वं नवसंततेः हस्तेषु समर्पयितुं समयः आगतः। तस्य अस्य वक्तव्यस्य अनन्तरं तत् राजनीतौ सम्भावितपरिवर्तनैः सह सम्बद्धं कृत्वा द्रष्टुं प्रारब्धम् आसीत्।
---------------
Hindusthan Samachar / Dheeraj Maithani