Enter your Email Address to subscribe to our newsletters

पौड़ी गढ़वालम्, 25 अगस्तमासः (हि.स.)।
देवभूमेः उत्तराखण्डस्य समृद्धां संस्कृत-परम्परां अग्रे वर्धयितुं तथा विद्यार्थिषु संस्कृतभाषायाः प्रति प्रेम, रुचिं गौरवभावनां च जागरयितुम् उद्दिश्य ब्रिगेडियर-विद्याधर-जुयाल-संस्कृत-विद्यालये, भुवनेश्वरी, मङ्गलवासरात् संस्कृत-सप्ताहस्य शुभारम्भः अभवत्। सप्ताहपर्यन्तं चलिष्यमाणस्य कार्यक्रमस्य प्रथमदिने विद्यालय-परिसरात् भव्य-शोभायात्रा निर्गता, यस्यां विद्यार्थिनः शिक्षकाः च उत्साहपूर्वकं सहभागितां कृतवन्तः।
शोभायात्रायाः अनन्तरं विद्यालये शैक्षिकाः, सांस्कृतिकाः तथा रचनात्मकाः कार्यक्रमाः आयोजिताः। कार्यक्रमे छात्रावास-अधीक्षकः नवीन-जुयालः तथा प्रधानाचार्या अनसूया-प्रसादा अवदताम् यत् संस्कृतं केवलं प्राचीना भाषा नास्ति, अपितु भारतीयज्ञानस्य, विज्ञानस्य, संस्कृतेः तथा संस्काराणां सशक्तं वाहकम् अस्ति। संस्कृतस्य अध्ययनात् विद्यार्थिषु अनुशासनं, संस्कारः, आत्मविश्वासः तथा स्वकीय-सांस्कृतिक-परम्परायाः प्रति गौरवभावना च विकसिताः भवन्ति।
डॉ. नवीन-ममगाईं संस्कृतगीतेन संस्कृतदिवसस्य तथा संस्कृतभाषायाः महत्त्वस्य विषये प्रकाशं क्षिप्तवान्। तेन विद्यार्थिभ्यः संस्कृतभाषायाः संरक्षणाय संवर्धनाय च समर्पितभावेन कार्यं कर्तुम् आह्वानं कृतम्। तेन कथितं यत् संस्कृतस्य उपासकत्वस्य सौभाग्यं प्राप्तं भवितुं सर्वेषां कृते गौरवस्य विषयः अस्ति।
डॉ. अनूप-कुकरेती अवदत् यत् संस्कृत-सप्ताहस्य अन्तर्गतं विद्यालये विविधाः शैक्षिकाः सांस्कृतिकाः च गतिविधयः आयोजिताः भविष्यन्ति। तासु संस्कृत-सम्भाषणम्, श्लोक-पाठः, संस्कृतगीतं, भाषणं तथा भारतीय-संस्कृतिम् आधृत्य नाटकं सहिताः अनेकाः मनोहारिणः कार्यक्रमाः सम्मिलिताः सन्ति। एताभिः गतिविधिभिः विद्यार्थिभ्यः स्वप्रतिभायाः रचनात्मकतायाश्च प्रदर्शनस्य अवसरः प्राप्स्यते।
संस्कृत-सप्ताहस्य शुभारम्भावसरे विद्यालय-परिसरः ‘ग्रामे ग्रामे संस्कृतम्’ इत्यादिभिः संस्कृतभाषा-सम्बद्धैः सन्देशैः गुञ्जितः अभवत्। विद्यार्थिनां शिक्षकाणां च उत्साहेन सम्पूर्णः कार्यक्रमः आकर्षकः सजीवश्च अभवत्। कार्यक्रमे आशीष-डबरालः, कमलदीप-पोखरियालः, अङ्कित-मैठाणी, ईशान-डोभालः, नीरज-पटवालः, मयङ्क-सुन्दरियालः, रामेश्वर-वैष्णवी इत्यादयः विद्यालय-परिवारस्य शिक्षकाः, कर्मचारिणः विद्यार्थिनः च उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani