जैनपाण्डुलिपयः भारतस्य प्राचीनज्ञानपरम्परायाः संस्कृतेश्च उत्कृष्टम् उदाहरणम् - अरुणकुमारः
नवदिल्ली, २५ अगस्तमासः (हि.स.)। राष्ट्रियस्वयंसेवकसङ्घस्य सहसर-कार्यवाहः अरुणकुमारः उक्तवान् यत् जैनपाण्डुलिपयः प्राकृतभाषायां लिखितं जैनसाहित्यं च भारतस्य सभ्यतायाः, संस्कृतेः प्राचीनज्ञान-व्यवस्थायाश्च उत्कृष्टम् उदाहरणम् अस्ति। तेन उक्तं यत् एता
राष्ट्रीय स्वयंसेवक संघ के सहसरकार्यवाह अरुण कुमार मंगलवार को नई दिल्ली के गोल मार्किट इलामें स्थित जैन भवन में शहजाद राय शोध संस्थान बड़ौत द्वारा आयोजित‘विरासत’ जैन पांडुलिपि एवं साहित्य प्रदर्शनी का अवलोकन करते हुए


नवदिल्ली, २५ अगस्तमासः (हि.स.)। राष्ट्रियस्वयंसेवकसङ्घस्य सहसर-कार्यवाहः अरुणकुमारः उक्तवान् यत् जैनपाण्डुलिपयः प्राकृतभाषायां लिखितं जैनसाहित्यं च भारतस्य सभ्यतायाः, संस्कृतेः प्राचीनज्ञान-व्यवस्थायाश्च उत्कृष्टम् उदाहरणम् अस्ति। तेन उक्तं यत् एतादृशायाः दुर्लभज्ञानसम्पदः संरक्षणम् अद्य महत्त्वपूर्णा आवश्यकता अस्ति, येन अग्रिमवंशस्य भारतस्य समृद्धज्ञान-परम्परायाः परिचयं प्राप्तुं शक्नुयुः।

अरुणकुमारः एतद् जैनभवने शहजादरायशोधसंस्थानेन, बडौत् इत्यनेन आयोजितायाः ‘विरासत्’ इति जैनपाण्डु-लिपिसाहित्यप्रदर्शिन्याः उद्घाटनावसरे उक्तवान्। प्रदर्शन्याम् संस्थाने संरक्षिताः प्राचीनजैनपाण्डुलिपयः दुर्लभं जैनसाहित्यं च प्रदर्शितम् अस्ति।

तेन उक्तं यत् शहजादरायशोधसंस्थानेन संरक्षिता पाण्डुलिपिसम्पदा अत्यन्तं दुर्लभा प्रेरणादायिनी च अस्ति। अस्य महत्त्वपूर्णस्य कार्यस्य कृते तेन संस्थानस्य संस्थापकनिदेशकस्य डॉ. अमितरायजैनं प्रति आभारः प्रकटितः।

तेन उक्तं यत् जैनसाहित्यं केवलं धार्मिकदृष्ट्या एव महत्त्वपूर्णं नास्ति, अपितु तत्र भारतस्य दर्शनस्य, भाषायाः, कलायाः, इतिहासस्य प्राचीनज्ञानपरम्परायाश्च सम्बद्धा महत्त्वपूर्णा सामग्री अपि उपलब्धा अस्ति। प्राकृतभाषायां संरक्षितं साहित्यं भारतीयसभ्यतायाः विविधपक्षानां बोधने महत्त्वपूर्णां भूमिकां निर्वहति।

कार्यक्रमस्य अध्यक्षता अखिलभारतीय-श्वेताम्बरस्थानकवासी-जैनसम्मेलनस्य राष्ट्रीयाध्यक्षः अतुलजैनः कृतवान्। अस्मिन् अवसरे विश्वहिन्दूपरिषदः अन्तर्राष्ट्रियसंयुक्तमहामन्त्री सुरेन्द्रजैनः, जम्मू-कश्मीर-अध्ययनकेन्द्रस्य निदेशकः आशुतोषभटनागरः, आरएसएस्-केन्द्रीय-दलस्य सदस्यः मुकुलकानिटकरः, ऑर्गनाइज़र-वीकली इत्यस्य मुख्य-सम्पादकः प्रफुल्लकेतकरः सहितं जैनसमाजस्य अनेकाः विद्वांसः, बुद्धिजीविनः गणमान्याश्च जनाः उपस्थिताः आसन्।

देशस्य विभिन्नेभ्यः राज्येभ्यः आगताः विद्वांसः प्रदर्शन्याः अवलोकनं कृतवन्तः। तैः प्रदर्शिताः दुर्लभाः पाण्डुलिपयः प्राचीनग्रन्थाश्च भारतीयज्ञानपरम्परायाः सांस्कृतिकपरम्पराश्च अमूल्या सम्पदः इति कथिताः। विद्वद्भिः उक्तं यत् एतासु पाण्डुलिपिषु दर्शनस्य, भाषायाः, संस्कृतेः, इतिहासस्य सामाजिकजीवनस्य च सम्बद्धानि अनेकानि महत्त्वपूर्णानि तथ्यानि ज्ञानं च निहितम् अस्ति।

प्रदर्शन्याः माध्यमेन एषः सन्देशः अपि प्रदत्तः यत् जैनपाण्डुलिपयः भारतस्य बहुआयामीज्ञानपरम्परायाः महत्त्वपूर्णः स्रोतः सन्ति तथा तासां संरक्षणेन अग्रिमवंशेभ्यः प्राचीनभारतीयज्ञानं सांस्कृ-तिकपरम्परां च प्रापयितुं शक्यते।

Hindusthan Samachar / Divya Ranjan