Enter your Email Address to subscribe to our newsletters

उपवेशने सम्भागीयसंयुक्तसञ्चालकाः, जिलाशिक्षाधिकारिणः वरिष्ठाधिकारिणश्च सम्मिलिताः भविष्यन्ति
रायपुरम्, २५ अगस्तमासः (हि.स.)। छत्तीसगढसर्वकारस्य विद्यालयशिक्षामन्त्री गजेन्द्रयादवस्य अध्यक्षतायां लोकशिक्षणसञ्चालनालयेन समस्तेषां सम्भागीयसंयुक्तसञ्चालकानां, जिलाशिक्षाधिकारिणां, जिलामिशनसमन्वयकानां (समग्रशिक्षा), जिलाक्रीडाधिकारिणां विकासखण्डशिक्षाधिकारिणां च संयुक्तोपवेशनम् अद्य मङ्गलवासरे पूर्वाह्ने एकादशवादनतः दीनदयालसभागारे, विज्ञानमहाविद्यालयक्रीडाङ्गणे, रायपुरनगरे आयोजितं भविष्यति। उपवेशने सम्बन्धितानां सर्वेषाम् अधिकारिणाम् उपस्थितिः अनिवार्या भविष्यति तथा कस्यापि अधिकारिणः स्थाने प्रतिनिधेः उपस्थितिः मान्या न भविष्यति।
उपवेशने विभागीययोजनानां, शैक्षणिकक्रियाकलापानाम्, कर्मचारिणाम् अन्तर्जालीयस्थित्यङ्कनस्य, मुख्यमन्त्रिसहायतादूरभाषप्रकरणानां, न्यायालयसम्बद्धप्रकरणानां, छात्रवृत्तीनाम्, स्मार्टकक्षाणां तथा सूचनाप्रौद्योगिक्याः, प्रधानमन्त्रीश्रीविद्यालयानां, यू डायसदत्तांशस्य, सी डब्ल्यू एस एन विद्यार्थिनां सहितानां विविधानां महत्त्वपूर्णविषयाणां समीक्षा क्रियते।
Hindusthan Samachar / Dheeraj Maithani