Enter your Email Address to subscribe to our newsletters

हैदराबादम्, २५ अगस्तमासः (हि.स.)। अखिलभारतीयजनसङ्घस्य (एबीजेएस) राष्ट्रीयाध्यक्षः आचार्यः भारतभूषणपाण्डेयः काङ्ग्रेसनेता राहुलगान्धिना गतदिवसेषु मनुस्मृतेः अनुचितरूपेण उद्धरणं कृत्वा तां स्त्रीविरोधिनीं प्रतिपादयितुं कृतस्य वक्तव्यस्य तीव्रं निषेधं कृतवान्। तेन एतत् सनातनधर्मस्य प्रति विद्वेषपूर्ण-मानसिकतायाः परिचायकम् इति कथितम्।
आचार्यपाण्डेयः राहुलगान्धिसहितेभ्यः अन्येभ्यश्च नेतृभ्यः धार्मिकविषयेषु टिप्पणीकरणात् विरताः भवितुम् आह्वानं कृतवान्। तेन उक्तं यत् पूर्ववर्तिन्यां काङ्ग्रेससर्वकारे कथं संविधानस्य, लोकतन्त्रस्य नियमस्य च अवमाननं कृत्वा हिन्दुधर्मस्य धर्माचार्याणां च उपरि प्रहारः कृतः आसीत्, तान् मिथ्यामुकदमान् आरोप्य कलङ्कितान् कारागारे च निबद्धान् कृतवन्तः आसन् तथा श्रीरामसेतुभञ्जनस्य श्रीराममन्दिरस्य विरोधस्य च अभियानं चालितम् आसीत्—एतत् देशस्य जनाः सम्यक् स्मरन्ति।
तेन उक्तं यत् राहुलगान्धिना मनुस्मृतेः विषये वक्तव्यं दातुं स्थाने बाङ्गलादेशे निरपराधहिन्दूनां निरन्तरं जायमानस्य नरसंहारस्य विषये वक्तव्यम्। तेन उक्तं यत् राजनीतिक्षेत्रे अयोग्याः, अदूरदर्शिनः सत्तालोलुपाः तत्त्वाः क्रमेण प्रभावं वर्धयन्ति तथा देशविरोधिनः अराजकतत्त्वाः अस्य लाभं प्राप्तुं प्रयतन्ते।
Hindusthan Samachar / Divya Ranjan