Enter your Email Address to subscribe to our newsletters

टोक्यो, 25 अगस्तमासः (हि.स.)।जापानस्य प्रधानमन्त्री साने ताकाइची अन्ताराष्ट्रिय अपराध न्यायालयस्य अध्यक्षायै जापानीनागरिकायै तोमोको अकाने इत्यस्यै अमेरिकादेशेन आरोपितान् प्रतिबन्धान् जापानस्य दृष्टिकोणानुरूपान् न मन्यते । सा अवदत् यत् जापानः अस्यां अमेरिकीकार्रवाईम् अत्यन्तं गम्भीरतया गृह्णाति तथा सः निरन्तरं अन्तरराष्ट्रीय अपराध न्यायालयस्य समर्थनं कुर्वन् अस्ति ।
प्रधानमन्त्री ताकाइची पत्रकारैः सह वार्तालापे अवदत् यत् जापानः अन्ताराष्ट्रिय-अपराधन्यायालयं प्रति स्वप्रतिबद्धतायां स्थिरः अस्ति । सा पूर्वमपि अमेरिकीप्रतिबन्धान् अत्यन्तं दुर्भाग्यपूर्णान् इति कथयित्वा अवदत् यत् जापानेन अन्तिमसमयपर्यन्तम् अमेरिकादेशं अकाने इत्यस्याः विरुद्धं कार्यवाहीं न कर्तुं मनयितुं प्रयासः कृतः आसीत् ।
अमेरिकादेशेन अधुना एव अन्ताराष्ट्रिय अपराध न्यायालयस्य अध्यक्षायै तोमोको अकाने इत्यस्यै वरिष्ठविचारणाधिवक्त्रे अब्दुलाये सेये इत्यस्मै च प्रतिबन्धाः आरोपिताः सन्ति । अमेरिकादेशस्य विदेशमन्त्री मार्को रुबियो इत्यनेन आरोपितं यत् उभौ अधिकारी तेषां देशानां अधिकारिणां विरुद्धं अन्ताराष्ट्रिय अपराध न्यायालयस्य कार्यवाहीयां प्रत्यक्षतया सम्मिलितौ स्तः ये न्यायालयस्य अधिकारक्षेत्रं स्वीकृतवन्तः न सन्ति ।
वाशिङ्गटनस्य कथनमस्ति यत् अन्ताराष्ट्रिय अपराध न्यायालयेन अमेरिकादेशस्य अन्येषां च असदस्यदेशानां नागरिकेषु अधिकारक्षेत्रं स्थापयितुं प्रयत्नं कृत्वा स्वसीमाः उल्लङ्घिताः सन्ति । ट्रम्पप्रशासनेन एतत् अमेरिकीयसार्वभौमत्वस्य कृते संकटम् इति कथितम् अस्ति तथा च न्यायालयस्य विरुद्धम् अग्रेऽपि अतिरिक्ताः कार्यवाह्यः कर्तुं शक्यन्ते इति सङ्केतः प्रदत्तः अस्ति ।
अपरतः अन्ताराष्ट्रिय अपराध न्यायालयस्य प्रमुखेषु वित्तीयसमर्थकेषु अन्यतमः जापानदेशः स्पष्टतया उक्तवान् यत् सः संस्थायाः स्वतन्त्रतायाः भूमिकायाश्च समर्थनं निरन्तरं करिष्यति । प्रधानमन्त्रिणी ताकाइची अवदत् यत् जापानः अग्रिमपरिस्थितीनां निरीक्षणं करिष्यति तथा आवश्यकतायां समुचितानि पदानि स्वीकरिष्यति ।
---------
Hindusthan Samachar / Dheeraj Maithani