विश्वहिन्दुपरिषदः सभायां हिन्दुसमाजं अधिकं सशक्तं सङ्गठितं च कर्तुं विषये चर्चा
मुरादाबादम्, २५ अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य मुरादाबादजनपदे विश्वहिन्दु-परिषदः महानगरस्य कार्ययोजनासभा मङ्गलवासरे आयोजिता। अस्यां सभायां प्रान्तस्य सहमन्त्री मनोजसिरोही पालक-रूपेण उपस्थितः आसीत्। कार्यक्रमस्य अध्यक्षतां कुर्वन् विहिप-महानगराध्
विश्व हिंदू परिषद महानगर मुरादाबाद की कार्य योजना बैठक में मंचासीन पदाधिकारी।


मुरादाबादम्, २५ अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य मुरादाबादजनपदे विश्वहिन्दु-परिषदः महानगरस्य कार्ययोजनासभा मङ्गलवासरे आयोजिता। अस्यां सभायां प्रान्तस्य सहमन्त्री मनोजसिरोही पालक-रूपेण उपस्थितः आसीत्। कार्यक्रमस्य अध्यक्षतां कुर्वन् विहिप-महानगराध्यक्षः अमितगुप्तः अग्रिम-कार्यक्रमाणां तथा हिन्दुसमाजं अधिकं सशक्तं सङ्गठितं च कर्तुं विषये विस्तरेण चर्चां कृतवान्।

अस्मिन् अवसरे महानगरस्य प्रखण्डस्य च सर्वेभ्यः कार्यकर्तृभ्यः विचारा: प्रदत्ताः तथा कतिपयेषु नूतनेषु दायित्वेषु नियुक्तीनां घोषणाः कृताः। कार्यक्रमे प्रमुखरूपेण उपेन्द्रमिश्रः, अमितगौडः, वरुणशर्मा, शैलेन्द्रप्रसादगुप्तः, बृजेशः, अनिलकठेरिया, शुभमदेशभक्तः, अनिलशर्मा, चैतन्य-सिंहराणा, नवदीपसिंहः, राजीवठाकुरः, विक्कीप्रजापतिः, पङ्कजनागरः, रजत-ठाकुरः, सौरभप्रेमी, अश्वनीगुप्तः, विकासगुप्तः इत्यादयः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan