पूर्वन्यायाधीशेन मल्लिकार्जुनरावेन आन्ध्रप्रदेशस्य लोकायुक्तरूपेण शपथः गृहीता
विजयवाडा, २५ अगस्तमासः (हि.स.)। आन्ध्रप्रदेशोच्चन्यायालयस्य पूर्वन्यायाधीशाय तल्लाप्रगडाय मल्लिका-र्जुनरावाय राज्यपालः एस. अब्दुलनजीरः मङ्गलवासरे आन्ध्रप्रदेशस्य लोकायुक्त-रूपेण शपथं दापितवान्। लोकभवने आयोजिते समारोहकार्यक्रमे मुख्यमन्त्री एन. चन्द
आंध्र प्रदेश लोकायुक्त का शपथ ग्रहण समारोह


विजयवाडा, २५ अगस्तमासः (हि.स.)। आन्ध्रप्रदेशोच्चन्यायालयस्य पूर्वन्यायाधीशाय तल्लाप्रगडाय मल्लिका-र्जुनरावाय राज्यपालः एस. अब्दुलनजीरः मङ्गलवासरे आन्ध्रप्रदेशस्य लोकायुक्त-रूपेण शपथं दापितवान्। लोकभवने आयोजिते समारोहकार्यक्रमे मुख्यमन्त्री एन. चन्द्रबाबुनायडुः, सूक्ष्म-लघु-मध्यमोद्यममन्त्री कोण्डपल्ली श्रीनिवासः तथा अन्ये गणमान्याः जनाः उपस्थिताः आसन्।

लोकायुक्तसंशोधनाधिनियमेन, २०२४ द्वारा संशोधितस्य ‘आन्ध्रप्रदेशलोका-युक्ताधिनियमस्य, १९८३’ इत्यस्य ३(१) धारानुसारं राज्यपालः चयनसमित्याः अनुशंसायाः आधारेण तस्य नियुक्तिं कृतवान्। मुख्यसचिवेन जी. साईप्रसादेन निर्गते शासकीयादेशानुसारं सेवानिवृत्त-न्यायाधीशस्य मल्लिकार्जुन-रावस्य कार्यकालः शपथग्रहणदिनाङ्कात् पञ्चवर्षपर्यन्तं भविष्यति।

लोकायुक्तस्य नियुक्तिः मुख्यमन्त्रिणः अध्यक्षतायां विद्यमानया चयनसमित्या क्रियते। अस्याः समित्याः अन्येषु सदस्येषु विधानसभाध्यक्षः, गृहमन्त्री (अथवा मुख्यमन्त्रिणा नामनिर्दिष्टः अन्यः कश्चित् मन्त्री), विधानसभायां विपक्षनेता तथा विधानपरिषदः सभापतिः सम्मिलिताः भवन्ति।

Hindusthan Samachar / Divya Ranjan