प्रधानमन्त्रिणा प्रगतेः त्रिपञ्चाशत्तमे अधिवेशने षण्णां आधारभूतसंरचनापरियोजनानां समीक्षा कृता
नवदिल्ली, २५ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी मङ्गलवासरे सेवातीर्थे प्रगतेः त्रिपञ्चाशत्तमस्य अधिवेशनस्य अध्यक्षतां कृतवान्। अधिवेशने नवभ्यः राज्येभ्यः सम्बद्धानां रेलमार्गस्य, मार्गस्य, विद्युत्क्षेत्रस्य च षण्णां परियोजनानां समीक्षा
PM Modi gives mantra for happy life through Sanskrit verses


नवदिल्ली, २५ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी मङ्गलवासरे सेवातीर्थे प्रगतेः त्रिपञ्चाशत्तमस्य अधिवेशनस्य अध्यक्षतां कृतवान्। अधिवेशने नवभ्यः राज्येभ्यः सम्बद्धानां रेलमार्गस्य, मार्गस्य, विद्युत्क्षेत्रस्य च षण्णां परियोजनानां समीक्षा कृता। एतासां परियोजनानां कुलव्ययः त्रिंशत्सहस्र-कोटिरूप्यकेभ्यः अधिकः अस्ति। प्रधानमन्त्री कार्याणां समयबद्धसमाप्तेः, विभागानां मध्ये समन्वयस्य तथा लम्बितविषयाणां समाधानस्य च विषये बलं दत्तवान्।

प्रधानमन्त्रीकार्यालयस्य अनुसारम् अधिवेशने परियोजनानां प्रगतेः विस्तरेण समीक्षा कृता। प्रधानमन्त्री उक्तवान् यत् आधारभूतसंरचनापरियोजनासु विलम्बस्य प्रभावः केवलं व्ययवृद्धिपर्यन्तं सीमितः न भवति। तेन नागरिकेभ्यः, व्यवसायेभ्यः अर्थव्यवस्थायै च प्राप्तव्याः लाभाः अपि विलम्बिताः भवन्ति। सः परियोजनाः पृथक्-पृथक् भागरूपेण न, अपितु एकीकृतरूपेण दृष्ट्वा तासां निरीक्षणं कर्तुं बलं दत्तवान्।

प्रधानमन्त्रिणा उक्तं यत् पृथक्-पृथक् संकुलानां प्रगतेः अन्तिमं लक्ष्यं सम्पूर्णपरियोजनायाः समये पूर्णता तथा तस्याः सञ्चालनस्य प्रारम्भः भवितव्यम्। सः केन्द्रस्य राज्यसर्वकाराणां च परियोजनानां कार्यान्वयने प्रारम्भात् अन्तपर्यन्तं समग्ररणनीतेः स्वीकरणाय आह्वानं कृतवान्। तेन तासां महत्त्वपूर्णानां न्यूनतानां निवारणेऽपि बलं दत्तं, याभिः सम्पूर्णपरियोजनायाः प्रारम्भे विलम्बः सम्भवति।

सः बृहतीनां परिवहनपरियोजनानां तथा आधारभूतसंरचनापरियोजनानां योजनां कुर्वद्भिः सहभाग-उपयोगितापथानां सम्भावनायाः अन्वेषणाय आह्वानं कृतवान्। एतदर्थं तकनीकीं आर्थिकं च व्यवहार्यतां योजनायाः प्रारम्भिके चरणे एव परीक्षितुं निर्दिष्टवान्। प्रधानमन्त्री इदमपि स्पष्टं कृतवान् यत् परियोजनानां गतिना सह गुणवत्तायाः विषये किमपि सम्झौता न भवेत्। आधुनिकप्रौद्योगिक्याः, उत्तमगुण-वत्तानियन्त्रणस्य प्रभावीनिरीक्षणस्य च स्वीकरणे बलं दत्तम्।

अधिवेशने डिजिटलकृषि-अभियानस्य अन्तर्गतं एग्रीस्टैक् इत्यस्यापि समीक्षा कृता। कृषिसम्बद्धैः आँकडैः श्रेष्ठतराणि परिणामानि प्राप्तुं कृत्रिमबुद्धिमत्तया सह आधुनिकानां डिजिटलप्रौद्योगिकीनां उपयोगे प्रधानमन्त्री बलं दत्तवान्। सः कृषिमूल्यशृङ्खलायां विवरणानां प्रभावी-प्रयोगस्य विषये उक्तवान्। अनेन कृषिसामग्रीणां योजना, प्रसंस्करणं तथा कृषकेभ्यः लक्षितहस्तक्षेपः च अधिकं सुदृढं कर्तुं शक्यते।

साइबरवंचनस्म डिजिटल-अभिग्रहणस्य च प्रकरणानां समीक्षायाः समये प्रधानमन्त्री निवारणव्यवस्थां सुदृढां कर्तुं आवश्यकतां प्रतिपादितवान्। सः प्रशिक्षणस्य, जागरूकतायाः शिक्षायाश्च निरन्तरं ध्यानं दातुं उक्तवान्। वरिष्ठनागरिकाणां, युवानां तथा अन्येषां संवेदनशीलवर्गाणां कृते लक्षितजागरूकताभियानानां सञ्चालनाय बलं दत्तम्। सम्बद्धकर्मचारिणां नियमित-क्षमतावर्धने तथा साइबरवंचनस्य नूतनानां पद्धतीनां शीघ्रपरिचयेऽपि बलं दत्तम्।

उल्लेखनीयं यत् प्रगतिः सक्रियशासनस्य समयबद्धक्रियान्वयनस्य च कृते सूचना-सञ्चारप्रौद्योगिकी-आधारितः बहुआयामी मञ्चः अस्ति। अधिवेशने आधारभूत-संरचनापरियोजनाभिः सह डिजिटलकृषेः तथा साइबरवंचनस्य सम्बद्धानां विषया-णामपि समीक्षा कृता।

/ अंशु गुप्ता