Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 25 अगस्तमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी मङ्गलवासरे एकं प्रेरणादायकं सुभाषितं साझा कृतवान्। तेन संस्कृतश्लोकस्य माध्यमेन सत्सङ्गतेः, विद्वद्भिः सह संवादस्य, निःस्वार्थजनैः सह मैत्र्याः च महत्त्वं प्रतिपादितम्।
प्रधानमन्त्री मोदी सामाजिकमाध्यममञ्चे एक्स इत्यत्र लिखितवान् यत्“उत्तमैः सह साङ्गत्यं पण्डितैः सह सत्कथाम्।अलुब्धैः सह मित्रत्वं कुर्वाणो नावसीदति॥”
अस्य श्लोकस्य भावार्थः अस्ति यत् उत्तमजनानां सङ्गतिः, विद्वद्भिः सह सत्संवादः तथा निःस्वार्थैः निर्लोभिभिश्च जनैः सह मैत्री यः जनः करोति, सः कदापि दुःखं न प्राप्नोति।
अस्मात् एकदिनात् पूर्वं सोमवासरे अपि प्रधानमन्त्री एक्स इत्यत्र सुभाषितं साझा कृत्वा लिखितवान् आसीत्, “करुणया आत्मसम्मानः सन्तोषेन च वास्तविकं सुखं प्राप्यते। एतादृशेन भावेन समाजे सहयोगस्य सौहार्दस्य च सम्बन्धः अधिकं सुदृढः भवति।”
प्रधानमन्त्रिणा संस्कृतश्लोकः अपि सहकारीकृतः आसीत् —
“कारुण्येनात्मनो मानं तृष्णां च परितोषतः।उत्थानेन जयेत्तन्द्रीं वितर्कं निश्चयाज्जयेत्॥”
अस्य श्लोकस्य भावार्थः अस्ति यत् परेषु करुणाभावं धारयित्वा आत्मसम्मानः प्राप्यते तथा सन्तोषी भूत्वा तृष्णायाः उपरि विजयः प्राप्यते। पुरुषार्थेन आलस्यं जयेत् तथा निश्चयेन आधारहीनाः आशङ्काः अर्थात् वितर्काः पराजेयाः।
---------------
Hindusthan Samachar / Dheeraj Maithani