पंजाबस्य उपभोक्तृभ्यो रक्षणं, मई-जूनमासयोः 300 यूनिटसंख्यकं निःशुल्कमनुदानं लप्स्यते
चंडीगढ़म्, 25 अगस्तमासः (हि.स.)। पञ्जाबे अधिकविद्युत्-बिलस्य तथा त्रिशत-यूनिट्-मुक्त-विद्युत्-अनुदान-लाभस्य अप्राप्त्या पीडितानां उपभोक्तॄणां कृते शीघ्रमेव राहतिः प्राप्स्यते। पञ्जाब-सर्वकारेण तादृशाः ६३,७०२ उपभोक्तारः चिह्निताः, येभ्यः तान्त्रिक-
बिजली मंत्री तरुणप्रीत सिंह सौंध


चंडीगढ़म्, 25 अगस्तमासः (हि.स.)।

पञ्जाबे अधिकविद्युत्-बिलस्य तथा त्रिशत-यूनिट्-मुक्त-विद्युत्-अनुदान-लाभस्य अप्राप्त्या पीडितानां उपभोक्तॄणां कृते शीघ्रमेव राहतिः प्राप्स्यते। पञ्जाब-सर्वकारेण तादृशाः ६३,७०२ उपभोक्तारः चिह्निताः, येभ्यः तान्त्रिक-कारणैः मुक्त-विद्युत्-अनुदान-लाभः प्राप्तुं न शकितः आसीत्।

विद्युत्-मन्त्री तरुणप्रीतसिंह-सौन्धः मङ्गलवासरे चण्डीगढे पत्रकारसम्मेलनं कृत्वा अवदत् यत् मीटर-वाचकानां हड़तालस्य कारणेन मई, जून तथा जुलाई-मासेषु बहुभ्यः उपभोक्तृभ्यः औसत-उपभोगस्य आधारेण विद्युत्-बिलानि प्रदत्तानि आसन्। अस्याः प्रक्रियायाः कारणेन मई-जून-मासयोः त्रिशत-यूनिट्-पर्यन्तस्य मुक्त-विद्युत्-सब्सिडी-बिलेषु समाविष्टा न भवितुम् अशक्नोत्। मन्त्री अवदत् यत् अधुना एतेषां सर्वेषां उपभोक्तॄणां बिलानि पुनः सज्जीकृतानि भविष्यन्ति। सर्वकारः आगामीषु त्रिषु कार्यदिवसेषु नूतनानि बिलानि निर्गमयिष्यति, येषु मई-जून-मासयोः सब्सिडी-लाभः संयोजितः भविष्यति।

तरुणप्रीतसिंह-सौन्धः अवदत् यत् ये उपभोक्तारः पूर्वमेव वर्धितं बिलं दत्त्वा धनराशिं समर्पितवन्तः, तेषां धनराशिः आगामी-बिले समायोजिता भविष्यति। तेन उक्तं यत् सर्वकारः उपभोक्तॄणां समस्यासमाधानाय विशेष-सहायता-दूरभाष-सेवामपि प्रारभिष्यति। अस्यां सहायता-दूरभाष-सेवायां विंशति-कर्मचारिणां दलं नियुक्तं भविष्यति, यत् अधिक-बिल-सम्बद्धानां शिकायतानां परीक्षणं करिष्यति। मन्त्री अवदत् यत् शिकायत् प्राप्ते सति प्रायः पञ्चदशदिनानां अन्तः समाधानं कर्तुं प्रयासः भविष्यति।

तेन उदाहरणं दत्त्वा कथितं यत् यदि कस्मिंश्चित् उपभोक्तुः मई-जून-मासयोः विद्युत्-उपभोगः त्रिशत-यूनिट्-तः न्यूनः आसीत्, तर्हि तस्मै मुक्त-विद्युत्-सब्सिडी प्राप्तव्या आसीत्। किन्तु त्रयाणां मासानां विद्युत्-उपभोगं संयोज्य औसतं निष्पादितत्वात् बिलस्य राशिः अधिका दृश्यते स्म। विद्युत्-मन्त्रिणा कथितं यत् पीएसपीसीएल-संस्थायां नूतन-सॉफ्टवेयरस्य प्रारम्भस्य समये कतिपया तान्त्रिकी समस्या समुपस्थिता आसीत्। दत्तांश-स्थानान्तरणस्य समये उत्पन्नया त्रुट्या प्रायः द्वि-प्रतिशतानां उपभोक्तॄणां बिलानि प्रभावितानि अभवन्।

तेन उक्तं यत् सॉफ्टवेयर-निर्मात्री-संस्थां प्रति कारण-दर्शक-सूचना निर्गता अस्ति तथा समस्या अधुना समाधिता अस्ति। मन्त्रिणा दावा कृतं यत् अष्टानवतिः प्रतिशतं विद्युत्-बिलानि सम्यक् सन्ति, प्रभावित-उपभोक्तॄणां शिकायतानां च शीघ्रं निवारणं करिष्यते। सर्वकारेण उपभोक्तृभ्यः आश्वासनं प्रदत्तं यत् येषां जनानां मुक्त-विद्युत्-अनुदान-लाभः न प्राप्तः, तेभ्यः तेषां अधिकारस्य लाभः शीघ्रमेव उपलब्धः कारयिष्यते।

----------------------

Hindusthan Samachar / Dheeraj Maithani