(रक्षाबंधने विशेषः) सप्त समुद्राणां पारः अपि न खंडितं रक्षासूत्रं, सूरततः 100 देशान् यावत् भगिनीनां प्रेम प्राप्नोत् पत्रालयविभागद्वारा
सूरतनगरेण विगतेषु पञ्चविंशतिदिनेषु शताधिकदेशेभ्यः दशसहस्राधिकाः षट्शताः च रक्षापत्रावरणानि पत्राणि च प्रेषितानि सूरतम्, २५ अगस्तमासः, रक्षाबन्धनपर्व भ्रातृभगिन्योः अखण्डप्रेम विश्वास रक्षासंकल्पयोः पर्व अस्ति । समयस्य परिवर्तनस्य कारणेन रोजगारशि
વિશ્વના 100થી વધુ દેશોમાં 10,600થી વધુ રાખડી કવર અને પાર્સલ મોકલવામાં આવ્યા


सूरतनगरेण विगतेषु पञ्चविंशतिदिनेषु शताधिकदेशेभ्यः दशसहस्राधिकाः षट्शताः च रक्षापत्रावरणानि पत्राणि च प्रेषितानि

सूरतम्, २५ अगस्तमासः, रक्षाबन्धनपर्व भ्रातृभगिन्योः अखण्डप्रेम विश्वास रक्षासंकल्पयोः पर्व अस्ति । समयस्य परिवर्तनस्य कारणेन रोजगारशिक्षाव्यापारादिभिः प्रयोजनैः भ्रातरः भगिन्यश्च परस्परं सहस्रशः किलोमीटरपरिमितया दूरे स्थिताः सन्ति तथापि भारतीय डाकविभागः रक्षामाध्यमेन तयोः प्रेमसम्बन्धं स्थिरं स्थापयितुं महत्वपूर्णां भूमिकां निर्वहति । सूरतनगरात् विगतेषु पञ्चविंशतिदिनेषु शताधिकदेशेभ्यः दशसहस्राधिकाः षट्शताः रक्षापत्रावरणानि पार्सलानि च प्रेषितानि सन्ति । गुजरातप्रदेशात् अद्यावधि षट्सप्ततिसहस्राधिकानि रक्षापार्सलपत्राणि विदेशं प्रेषितानि सन्ति । अमेरिका कनाडा आस्ट्रेलिया ब्रिटेनदेशेभ्यः राखीप्रेषणस्य प्रमाणं सर्वाधिकम् अस्ति ।

अन्ताराष्ट्रिय अन्वेषणीय पार्सलसेवया शीघ्रडाकसेवया च भगिन्यः विदेशेषु निवसद्भ्यः भ्रातृभ्यः रक्षासूत्रेण सहितं स्वस्नेहं शुभकामनाः आशीर्वादं च प्रेषयन्ति ।

सूरतनगरस्य एसवीआर महाविद्यालय पत्रालयगृहस्य डाकसहायकः स्नेहल पटेलः अवदत् यत् विदेशेषु निवसतां भ्रातॄणां समीपं राखीप्रेषणाय भारतीय पत्रालयसेवा जनानां प्रथमपसन्दत्वेन वर्तते । अनेकाः भगिन्यः रक्षासूत्रेण सह भावनापूर्णान् सन्देशान् उपहारांश्च अपि प्रेषयन्ति ।

जलनिरोधकावरणात् आरभ्य अन्तर्जालमाध्यमेन अन्वेषणपर्यन्तं सुविधा

राख्याः सुरक्षितप्रेषणाय पत्रालयविभागेन विशेषं जलनिरोधकं रक्षासूत्रपत्रावरणं व्हाट्सऐप माध्यमेन वस्तुसंग्रहणस्य सुविधा स्वयं-आरक्षणसुविधा अन्तर्जालमाध्यमेन शीघ्रपत्रालयन्वेषणस्य सुविधा च उपलब्धीकृता अस्ति । वास्तविकसमय अन्वेषणस्य माध्यमेन प्रेषकः स्वपार्सलस्य स्थितिमपि ज्ञातुं शक्नोति ।

सूरतनगरे विगतानि चतुर्दशवर्षाणि यावत् निवसन्ती शिवांगी सिंहः प्रतिवर्षं भारतीय डाकसेवया स्वभ्रात्रे रक्षां प्रेषयति । सा अवदत् यत् अस्मिन् वर्षे तया प्रेषिता रक्षासूत्रं केवलं त्रिदिनेषु भ्रातुः समीपं प्राप्तवती ।

भारतीय डाकविभागस्य एषा सेवा केवलं पत्रालयप्रेषणस्य व्यवस्था नास्ति अपि तु सीमासु समुद्रेषु च विद्यमानाः दूरता निवार्य भगिन्याः प्रेम ममता आशीर्वादं च भ्रातुः कलायां यावत् प्रापयितुं समर्थः भावनात्मकः सेतुः अभवत् ।

Hindusthan Samachar / Dheeraj Maithani