शतरंजक्रीडायाः विच्छादनं जीवनस्य शिक्षां यावत् जाता प्रेरणा , मौर्य वैद्यस्य प्रथमं पुस्तकम्
मंडी, 25 अगस्तमासः (हि.स.)। शतरञ्जः केवलं चतुःषष्टिखण्डानां द्वात्रिंशन्मोहराणां च क्रीडा नास्ति, अपितु धैर्यस्य, रणनीतेः, निर्णयस्य तथा जीवनस्य अवगमनस्य एका सुन्दरा कला अस्ति। दुबईनगरे निवसन् मौर्य वैद्यः मण्डीनगरस्य प्रसिद्धस्य अधिवक्तुः तथा एस
अपनी पुस्तक के साथ मौर्य वैद्य।


मंडी, 25 अगस्तमासः (हि.स.)।

शतरञ्जः केवलं चतुःषष्टिखण्डानां द्वात्रिंशन्मोहराणां च क्रीडा नास्ति, अपितु धैर्यस्य, रणनीतेः, निर्णयस्य तथा जीवनस्य अवगमनस्य एका सुन्दरा कला अस्ति। दुबईनगरे निवसन् मौर्य वैद्यः मण्डीनगरस्य प्रसिद्धस्य अधिवक्तुः तथा एस.वी.एम.विद्यालयस्य प्रबन्धसमित्याः सदस्यस्य स्वर्गीयसुन्दरगोयलस्य दौहित्रः अस्ति। सः अल्पायसि एव शतरञ्जक्रीडायाः स्वानुभवान् आधारीकृत्य ‘साइकोलॉजी ऑफ् ६४ स्क्वायर्स्’ इति पुस्तिकां लिखितवान्।

मौर्यस्य माता श्रुति गोयलः अवदत् यत् मौर्यः यदा त्रिमासीयः शिशुः आसीत्, तदा एव तस्य परिवारः दुबईनगरं प्रति स्थानान्तरितः अभवत्। सा अवदत् यत् बाल्यकालादेव मौर्यस्य पुस्तकपठने विशेषा रुचिः आसीत्। तस्य पिता गृहे एव तं शतरञ्जक्रीडां शिक्षितवान्। ततः परं तस्मै शतरञ्जस्य प्रशिक्षणमपि प्रदत्तम्, फलतः सः शतरञ्जक्रीडायां कुशलः श्रेष्ठः च क्रीडकः भूत्वा उदितः।

श्रुतिगोयलः अवदत् यत् यदा मौर्यः नवमकक्षायाः छात्रः आसीत्, तदा सः उक्तवान् आसीत् यत् शतरञ्जः तस्मै जीवनमिव प्रतिभाति तथा सः अस्मिन् विषये पुस्तकं लिखितुम् इच्छति। ततः परं सः निरन्तरं लेखनं कुर्वन् आसीत्। स्वस्य एतां चिन्तनधारां लेखन्याः माध्यमेन प्रस्तुतं कुर्वन् द्वादशकक्षायाः छात्रः शतरञ्जक्रीडकश्च मौर्य वैद्यः स्वस्य प्रथमां पुस्तकं ‘साइकोलॉजी ऑफ् ६४ स्क्वायर्स्’ इति लिखितवान्। अस्य माध्यमेन तेन प्रेरणादायिनी उपलब्धिः प्राप्ता अस्ति।

बाल्यकालादेव शतरञ्जस्य प्रति गभीररुचिं धारयन् मौर्यः एतां क्रीडां केवलं प्रतियोगितासु विजयपराजययोः सीमितां न कृतवान्। अपितु सः शतरञ्जक्रीडां स्वस्य व्यक्तिगतजीवनेन सहापि सम्बद्धवान्। तस्य पुस्तके शतरञ्जस्य चालनानां रणनीतीनां च वर्णनेन सह तस्य स्वानुभवाः, विचाराः तथा जीवनसम्बद्धाः शिक्षाः अपि दृश्यन्ते।

मौर्यं शतरञ्जेन अनेकाः महत्त्वपूर्णाः शिक्षाः प्राप्ताः। यथा—धैर्यं धर्तुम्, उचितसमये निर्णयं कर्तुम्, पराजयात् शिक्षितुम्, स्वकीयाः त्रुटीः स्वीकर्तुम् तथा प्रत्येकस्यां परिस्थितौ अग्रिमचालनस्य विषये चिन्तयितुम्। एतान् स्वानुभवान् सः स्वस्य पुस्तकस्य माध्यमेन पाठकेभ्यः प्रापयितुं प्रयासं कृतवान् अस्ति।

मौर्य वैद्यस्य एषा प्रथमपुस्तिका तस्य शतरञ्जयात्रायाः केवलं प्रारम्भः अस्ति। एषः तादृशः प्रारम्भः अस्ति, यस्यां प्रत्येकस्य चालनस्य पृष्ठे एका कथा, प्रत्येकस्यां बाज्यां पृष्ठे एकः अनुभवः तथा प्रत्येकस्यां क्रीडायां जीवनस्य एका नूतना शिक्षा निहिता अस्ति।

सम्प्रति मौर्यः स्वस्य मातामहगृहे मण्डीनगरे प्रवासं कुर्वन् अस्ति। स्वस्य प्रथमपुस्तकं प्रति सः अत्यन्तम् उत्साहितः रोमाञ्चितश्च अनुभवति।

---------------

Hindusthan Samachar / Dheeraj Maithani