Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 25 अगस्तमासः (हि.स.)। मुख्यमन्त्री-पुष्करसिंह-धामी-महोदयस्य अध्यक्षतायां मङ्गलवासरे सचिवालये सम्पन्ने मन्त्रिमण्डलस्य उपवेशने प्रदेशस्य सर्वासां मार्गाणां स्थितेः तेषां सुधारस्य च विषये विस्तृता चर्चा अभवत्। उपवेशने नगरीयेषु ग्रामीणक्षेत्रेषु च स्थितानां मार्गाणां प्राथमिकतायाः आधारेण सुधारं कर्तुं तथा वर्षाकालस्य समाप्त्यनन्तरं मार्ग-सुधारकार्याणि युद्धस्तरेण प्रारब्धुं विशेषः बलः प्रदत्तः।
मुख्यमन्त्रिणा लोकनिर्माण-विभागस्य, प्रधानमन्त्री-ग्राम-सडक-योजनायाः (पीएमजीएसवाई) तथा विभिन्न-विभागानां संस्थानां च अधीनस्थेषु मार्गेषु प्रभावी-कार्ययोजनां निर्मातुं निर्देशाः प्रदत्ताः। उपवेशने पीएमजीएसवाई-अन्तर्गतं निर्मितानां तेषां पुरातन-मार्गाणां सुधाराय राज्यसर्वकारस्य पक्षतः आवश्यक-धनराशिं उपलब्धं कर्तुं विषये अपि चर्चा अभवत्, येषां अनुरक्षण-अवधिः समाप्ता अस्ति तथा येषां नियमित-रूपेण अनुरक्षणं न भवितुं शक्नोति।
धामी-महोदयेन कथितं यत् वर्षाकालस्य समाप्त्यनन्तरं प्रदेशस्य सर्वेषु भागेषु मार्ग-सुधारकार्याणि एकस्मिन् समये प्रारब्धव्यानि। अस्य कृते सम्बन्धित-विभागाः अधुना एव सर्वाणि सज्जीकरणकार्याणि पूर्णं कुर्वन्तु तथा निविदा-प्रक्रियाम् अपि समये पूर्णां कुर्वन्तु, येन वर्षायाः समाप्तेः अनन्तरं निर्माण-मरम्मत-कार्येषु कस्यापि प्रकारस्य विलम्बः न भवेत्।
उपवेशने नगर-निगमस्य, नगर-पालिकापरिषदः तथा नगर-पञ्चायत्-क्षेत्राणां मार्गाणां सुधाराय स्थानीय-निकायभ्यः आवश्यक-धनराशिं उपलब्धं कर्तुं विषये अपि विचारः कृतः। मुख्यमन्त्रिणा कथितं यत् नगरीयक्षेत्राणां मार्गाः अपि प्राथमिकतायाः आधारेण उत्तमाः करणीयाः तथा अस्य कृते स्थानीय-निकायभ्यः पर्याप्त-संसाधनानि उपलब्धानि करणीयानि।
मुख्यमन्त्रिणा सूचितं यत् सः अक्टोबर्-मासात् प्रदेशस्य विभिन्नक्षेत्राणां मार्गेण भ्रमणं करिष्यति। तेन अधिकारिभ्यः परस्पर-समन्वयेन ठोसां समयबद्धां च कार्ययोजनां निर्मातुं निर्देशाः प्रदत्ताः। तेन कथितं यत् नगरीयेषु ग्रामीणक्षेत्रेषु च उत्तमां सुगमां च मार्ग-व्यवस्थां सुनिश्चितुं सर्वैः सम्बन्धित-विभागैः मिलित्वा कार्यं करणीयम्।--------------
Hindusthan Samachar / Dheeraj Maithani