Enter your Email Address to subscribe to our newsletters

कालाबाजारी, जमाखोरी तथा मुनाफाखोरी इत्येषां विरुद्धाः कठोर-कार्यवाही-निर्देशाः
देहरादूनम्, २५ अगस्तमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी राज्ये आवश्यक-वस्तूनां मूल्यानां प्रभावी-नियन्त्रणं स्थापयितुं तथा सामान्यजनाय उचित-दरेषु वस्तूनां उपलब्धतां सुनिश्चितं कर्तुं निर्देशान् प्रदत्तवान्। तेन कालाबाजारी, जमाखोरी तथा मुनाफाखोरी-द्वारा कृत्रिमरूपेण मूल्यानि वर्धयतां जनानां विरुद्ध कठोर-कार्यवाही कर्तुं निर्देशः प्रदत्तः।
मुख्यमन्त्रिणा खाद्य-नागरिक-आपूर्ति-विभागं सहितं सम्बन्धित-विभागान् बाजारस्य आवश्यक-वस्तूनां उपलब्धतायाः मूल्यानां च नियमितरूपेण निरीक्षणं कर्तुं निर्देशितम्। तेन कथितं यत् कस्मिन्नपि स्तरे कृत्रिम-अभावं जनयित्वा उपभोक्तृभ्यः अधिक-मूल्यं ग्रहीतुं अनुमतिः न प्रदास्यते। अधिकारिभ्यः माग-आपूर्त्योः स्थितौ निरन्तरं दृष्टिं स्थापयितुं तथा आवश्यकतानुसारं समयबद्धानि पदक्षेपाणि स्वीकर्तुं निर्देशः प्रदत्तः।
धामिना सर्वेषां जनपदानां प्रशासनं बाजाराणां नियमितरूपेण निरीक्षणं कर्तुं निर्देशितम्। निरीक्षणस्य समये आवश्यक-वस्तूनां निर्धारित-मूल्यस्य प्रचलित-बाजार-मूल्यस्य च सह दुकानासु प्रतिष्ठानेषु च उपलब्धस्य भण्डारस्य अपि परीक्षणं क्रियते। तेन कथितं यत् कालाबाजारी, जमाखोरी अथवा निर्धारित-मानकानां उल्लङ्घनस्य पुष्टि भवति चेत् सम्बन्धित-व्यक्तेः अथवा प्रतिष्ठानस्य विरुद्धं नियमानुसारं कठोर-कार्यवाही विधास्यते।
मुख्यमन्त्रिणा कथितं यत् आवश्यक-वस्तूनां मूल्येषु अनावश्यक-वृद्धेः प्रत्यक्षः प्रभावः सामान्यनागरिकाणां गृह-बजटे भवति। राज्यसर्वकारः सामान्यजनस्य हितानां रक्षणाय प्रतिबद्धः अस्ति। तेन शासनस्य तथा जनपद-प्रशासनस्य अधिकारिभ्यः परस्पर-समन्वयेन बाजारस्य स्थितौ सततं निगराणी स्थापयितुं तथा अनियमिततायाः विषये शिकायत् प्राप्ते सति तत्कालं कार्यवाही सुनिश्चितं कर्तुं निर्देशः प्रदत्तः।
Hindusthan Samachar / Dheeraj Maithani