(लीड) राहुलगान्धी हिन्दुधर्मविरोधिनीं मानसिकतां मिथ्याप्रचारं च त्यजेत् : शङ्कराचार्यः अविमुक्तेश्वरानन्दसरस्वती
ज्योतिर्मठः, 25 अगस्तमासः (हि.स.)। ज्योतिष्पीठाधीश्वरः शङ्कराचार्यः स्वामी अविमुक्तेश्वरानन्दसरस्वती काङ्ग्रेसनेता राहुलगान्धिनः मनुस्मृतिसम्बन्धिनः वक्तव्यान् प्रति अद्य तीव्रां नाराजगीं व्यक्तवान् तथा तं चेतावितवान् यत् सः राजनैतिकमतभेदानां कारणे
ज्योतिर्मठ के शंकराचार्य स्वामी अविमुक्तेश्वरानंद सरस्वती फायल चित्र।


ज्योतिर्मठः, 25 अगस्तमासः (हि.स.)। ज्योतिष्पीठाधीश्वरः शङ्कराचार्यः स्वामी अविमुक्तेश्वरानन्दसरस्वती काङ्ग्रेसनेता राहुलगान्धिनः मनुस्मृतिसम्बन्धिनः वक्तव्यान् प्रति अद्य तीव्रां नाराजगीं व्यक्तवान् तथा तं चेतावितवान् यत् सः राजनैतिकमतभेदानां कारणेन हिन्दुधर्मशास्त्रविरोधिनीं मानसिकतां, मिथ्याप्रचारं भारतस्य सांस्कृतिकपरम्परायाः अपमानं च त्यजेत्।

शङ्कराचार्यः स्वामी अविमुक्तेश्वरानन्दसरस्वती मङ्गलवासरे कठोरं वक्तव्यं प्रकटयन् उक्तवान्, पुणेनगरे एकस्मिन् कार्यक्रमे श्रीराहुलगान्धिना हिन्दूनां प्रमुखधर्मशास्त्रे मनुस्मृतौ सनातनसांस्कृतिकविचारेषु च प्रदत्तं वक्तव्यं तस्य घोराज्ञानतां, सतहीबोधं सनातनपरम्परायाः प्रति दुर्भावनापूर्णां मानसिकतां च प्रकाशयति। राजनैतिकलाभं प्राप्तुं प्राचीनधर्मशास्त्राणां श्लोकान् सन्दर्भात् विच्छिद्य प्रस्तुतं करणं न केवलं अस्माकं सांस्कृतिकपरम्परायाः अपमानम्, अपितु समाजं भ्रमयितुं कुत्सितप्रयासः अपि अस्ति।

स्वामी अविमुक्तेश्वरानन्दसरस्वती उक्तवान् यत् राहुलगान्धिना मनुस्मृतिसनातनसांस्कृतिकविचारयोः सम्बन्धे याः टिप्पण्यः कृताः, ताः धर्मशास्त्राणां सतहीबोधं प्रदर्शयन्ति। सः उक्तवान् यत् संसदः आरभ्य सार्वजनिकमञ्चेषु यावत् मनुस्मृतिधर्मशास्त्रयोः विषये पुनः पुनः मिथ्यः भ्रामकश्च प्रचारः क्रियते। सः उक्तवान् यत् राजनैतिकमतभेदाः स्वस्थाने सन्ति, किन्तु धर्मशास्त्रविषये टिप्पणीं कुर्वता तथ्यं, सन्दर्भः अध्ययनं च प्राथमिकतया स्वीकरणीयम्।

सः उक्तवान् यत् मनुस्मृतिसहितेषु हिन्दुधर्मशास्त्रेषु समाजे विविधाः मताः व्याख्याश्च प्रचलिताः सन्ति। अतः कस्यचित् ग्रन्थस्य विषये एकपक्षीयधारणां प्रस्तुत्य स्थाने तस्य मूलस्वरूपं, सन्दर्भं, प्रयोजनं शास्त्रीयपरम्परां च अवगन्तुं आवश्यकम्। सः उक्तवान् यत् राजनैतिकमञ्चेभ्यः धर्मग्रन्थेषु क्रियमाणानां टिप्पणीनां समाजस्य विभिन्नवर्गेषु प्रभावः भवति।

स्वामी अविमुक्तेश्वरानन्दः मनुस्मृतेः ‘पिता रक्षति कौमारे, भर्ता रक्षति यौवने...’ इति श्लोकस्य उल्लेखं कुर्वन् उक्तवान् यत् अत्र स्त्रियाः परतन्त्रतायाः चर्चा नास्ति, अपितु परिवारस्य समाजस्य च पक्षतः तस्याः सुरक्षा-दायित्वयोः उल्लेखः अस्ति। सः उक्तवान्, संरक्षणस्य दायित्वस्य च विधानम्—यः ‘पिता रक्षति कौमारे, भर्ता रक्षति यौवने...’ इति श्लोकः राहुलगान्धिना अनुचितरूपेण उद्धृतः, सः स्त्रियाः परतन्त्रतायाः न, अपितु परिवारस्य समाजस्य च पक्षतः तस्याः सुरक्षा-सम्मान-भरणपोषणयोः दायित्वस्य विधानम् अस्ति। संस्कृतव्याकरणस्य दृष्ट्या अत्र ‘रक्षति’ इति पदं मूलार्थे सुरक्षां सूचयति, न तु नियन्त्रणस्य कस्यापि प्रकारस्य ‘नियन्त्रयति’ इति।

शङ्कराचार्यः उक्तवान् यत् सनातनपरम्परायां नार्याः स्थानं भारतीयवाङ्मये केवलमाश्रितरूपेण न, अपितु ‘शक्तिः’ महानिर्मात्री च इति रूपेण मन्यते। ऋग्वेदस्य मन्त्रद्रष्ट्रीभ्यः ऋषिकाभ्यः गार्गी-मैत्रेयी-लोपामुद्राभ्यः आरभ्य ‘यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः’ इति उद्घोषं कुर्वती एषा संस्कृतिः अधिकारकेन्द्रितसंघर्षस्य स्थाने परस्परपूरकतायाः सर्वोच्चादरस्य च आधारेण प्रतिष्ठिता अस्ति।

सः राहुलगान्धिनः एतत् कथितं तर्कमपि निरस्तवान् यत् भारतीयजनतापार्टी मनुस्मृतेः समर्थका अस्ति। सः उक्तवान्, राहुलगान्धिनः मनसि एषोऽपि राजनैतिकभ्रमः अस्ति यत् भारतीयजनतापार्टी मनुस्मृतेः समर्थकः दलः अस्ति, यद्येतत् पूर्णतः निराधारं सत्यात् परं च अस्ति। स्वतन्त्रभारतस्य शासनं कस्यापि राजनैतिकव्यवस्थायाः सञ्चालनं च केवलं भारतस्य संविधानानुसारमेव भवति। स्वस्य राजनैतिकविचारं निर्मातुं कस्यचित् दलस्य मनुस्मृत्या सह बलात् सम्बन्धं स्थापयितुं राहुलगान्धिनः अपरं मनःकल्पितमसत्यम् अस्ति।

शङ्कराचार्यः उक्तवान्, राहुलगान्धिनः निरन्तरैः मनुस्मृतिविरोधिभिः वक्तव्यैः इदं पूर्णतया सिद्धं जातं यत् तस्य मानसिकता मूलतः हिन्दुधर्मशास्त्राणां सनातनजीवनदृष्टेश्च विरोधिनी अस्ति। संसदः आरभ्य सार्वजनिकमञ्चेषु यावत् मनुस्मृतिधर्मशास्त्रयोः विषये पुनः पुनः मिथ्याभ्रामकप्रचारं कृतत्वात् एव वयं पूर्वं तम् ‘हिन्दुधर्मात् बहिष्कृतः’ इति घोषितवन्तः।

स्वामी अविमुक्तेश्वरानन्दः उक्तवान्, वयं तं चेतयामः यत् सः स्वस्य एतादृशात् धर्मविरोधिनः शास्त्रविरोधिनश्च वक्तव्यप्रचारात् विरमेत्। यदि सः तस्य काङ्ग्रेसदलम् च विना पूर्णशास्त्रीयाध्ययनेन बोधेन च सनातनधर्मग्रन्थेषु एतादृशानि भ्रामकाणि अपमानजनकानि च वक्तव्याणि निरन्तरं दास्यतः, तर्हि देशस्य प्रबुद्धः सनातनप्रेमी च समाजः तस्य एतस्य वैचारिकापरिपक्वतायाः तीव्रं मुखरं च विरोधं निरन्तरं करिष्यति।

ज्योतिष्पीठेश्वरः शङ्कराचार्यः प्रथमवारं काङ्ग्रेसस्य शीर्षनेतुः विरुद्धम् एतादृशं कठोरं वक्तव्यं प्रदत्तवान्।

Hindusthan Samachar / Dheeraj Maithani