Enter your Email Address to subscribe to our newsletters

निजीसंस्थायै/संघाय ३५ वर्षाणां कृते लीजमाध्यमेन दत्तं केन्द्रम्
अधुना सर्वकारीयधनस्य व्ययः न भविष्यति, निजीसंस्था द्विवर्षाभ्यन्तरे अवशिष्टकार्याणि पूर्णं कारयित्वा सञ्चालनं प्रारप्स्यति
मुक्तनिविदायाः माध्यमेन वृन्दावन-बॉटलर्स् तथा रॉकवुड् होटल्स इत्येतयोः संघस्य चयनम्
लखनऊ, २५ अगस्तमासः (हि.स.)। लखनऊविकासप्राधिकरणेन जयप्रकाश-नारायण-अन्ताराष्ट्रियकेन्द्रस्य सञ्चालनसम्बन्धे सज्जीकृतस्य प्रस्तावस्य उपरि मङ्गलवासरे मन्त्री-मण्डलेन अनुमोदनं प्रदत्तम्। तदनुसारं जेपीएनआईसी सञ्चालनाय निजीसंस्थायै वा संघाय वा पञ्चत्रिंशद्वर्षाणां कृते लीजमाध्यमेन प्रदास्यते। एतदर्थं मुक्तनिविदायाः माध्यमेन वृन्दावन-बॉटलर्स तथा रॉकवुड् होटल्स इत्येतयोः संघस्य चयनं कृतम् अस्ति।
द्विवर्षाभ्यन्तरे अवशिष्टकार्याणि पूर्णी-कर्तव्यानि
जेपीएनआईसी इत्यत्र सम्प्रति आन्तरिकसज्जा, विद्युत् तथा अग्नि-सुरक्षोपकरणानि इत्यादीनि विभिन्नानि अवशिष्टकार्याणि सन्ति। तेषां पूर्णतायै द्विशततः पञ्चाशत्कोटिरूप्यकाणि यावत् व्ययः अनुमानितः अस्ति। अनुबन्धानुसारं चयनितसंघेन स्वव्ययेन द्विवर्षाभ्यन्तरे सर्वाणि अवशिष्टकार्याणि पूर्णं कारयित्वा जेपीएनआईसी-सञ्चालनं प्रारब्धव्यम्। न केवलम् एतत्, अपितु संघेन अनुबन्धस्य शर्तानुसारं पञ्चविंशतिकोटि-रूप्यकाणां कार्यसम्पादनप्रत्याभूतिः प्राधिकरणे निक्षेपणीया भविष्यति। स्वीकृतिपत्रस्य प्राप्तेः अनन्तरं संघेन प्राधिकरणाय दशकोटि: एकादशलक्ष-रूप्यकाणि प्रदास्यन्ते।
सञ्चालनस्य प्रारम्भमात्रेण राजस्वं प्राप्स्यते
जेपीएनआईसी-सञ्चालनस्य प्रारम्भानन्तरं संघेन एलडीए-प्राधि-करणाय प्रतिवर्षं षट्कोटिरूप्यकाणि प्रदास्यन्ते। अस्यां राशौ प्रतिवर्षं पञ्चप्रतिशतम् वृद्धिः भविष्यति तथा निर्धारितपट्टाकालस्य समाप्तिपर्यन्तं एषा वार्षिकराशिः प्रायः पञ्चत्रिंशत्कोटि-रूप्यकाणि भविष्यति। एवं जेपीएनआईसी-सञ्चालनात् प्राधिकरणाय दीर्घकालिक-रूपेण नियमितराजस्वं प्राप्स्यते।
एलडीए-उपाध्यक्षः प्रथमेशकुमारः अवदत् यत् अस्य निर्माणे प्रायः अष्टशतैक-विंशतिकोटिरूप्यकाणां व्ययः अभवत्, यं एलडीए अग्रिमेषु त्रिंशद्वर्षेषु सर्वकाराय प्रत्यर्पयिष्यति। दीर्घकालिक-पट्टा-व्यवस्थया जेपीएनआईसी-रक्षणस्य, अवशिष्टकार्याणां पूर्णतायाः, प्रभावि-सञ्चालनेन च सह प्राधिकरणस्य वित्तीयभारस्य व्यवस्थितीकरणे सहायता भविष्यति।
होटल्, सम्मेलनकेन्द्रं क्रीडासुविधाश्च सञ्चाल्यन्ते
एलडीए-उपाध्यक्षः प्रथमेशकुमारः अवदत् यत् जेपीएनआईसी इत्यत्र निर्मितस्य होटलस्य, सम्मेलनकेन्द्रस्य, प्रेक्षागारस्य, वाहनपार्किङ्गस्य तथा क्रीडासुविधानां च सञ्चालनं चयनितसंघेन क्रियते। अपरत्र सङ्ग्रहालयखण्डस्य सञ्चालनस्य अधिकारः लखनऊविकासप्राधिकरणस्य समीपे सुरक्षितः भविष्यति। सः अवदत् यत् जेपीएनआईसी इत्येतत् आधुनिकं बहुउद्देशीयकेन्द्ररूपेण विकसितुं दिशि एषा व्यवस्था महत्त्वपूर्णं पदम् अस्ति।
सदस्यतायाः शुल्कं समितिः निर्धारयिष्यति
उपाध्यक्षः प्रथमेशकुमारः अवदत् यत् चयनितसंघेन जेपीएनआईसी इत्यत्र क्रीडासुविधासदस्यतायाः तथा क्लब इत्यस्य सदस्यतायाः प्रावधानं क्रियते। तदर्थं जनैः शुल्कं दातव्यं भविष्यति। तथापि सदस्यतायाः प्रभाविशुल्कस्य निर्धारणं संघेन न, अपितु समित्या क्रियते।
वैश्विकटेंडर इति माध्यमेन चयनम्
जेपीएनआईसी-सञ्चालनाय एलडीए-द्वारा मार्चमासे २०२६ तमे वर्षे वैश्विकनिविदा आमन्त्रिता आसीत्। अस्यां त्रयः बृहद्संस्थाः वा संघाः वा भागं गृहीतवन्तः। निर्धारितप्रक्रियानुसारं प्राप्तनिविदानां परीक्षणं मूल्याङ्कनं च कृत्वा मुक्तनिविदायाः माध्यमेन वृन्दावन-बॉटलर्स् तथा रॉकवुड् होटल्स इत्येतयोः संघस्य चयनं कृतम् अस्ति। रॉकवुड् होटल्स-द्वारा दुबई-न्यूयॉर्क-नगराभ्यां सहितेषु त्रिंशत्सु बृहद्देशेषु होटलशृङ्खलानां सफलतया सञ्चालनं क्रियते। अपरत्र वृन्दावनबॉटलर्स प्रदेशस्य बृहत्तमा बॉटलिङ्ग-संस्था अस्ति, यस्याः वार्षिक-व्यापारः प्रायः चतुर्शतकोटि-रूप्यकाणि अस्ति।
Hindusthan Samachar / Divya Ranjan