यूपीआई-प्रारम्भस्य दशवर्षपूर्त्यवसरे वैष्णवेन चिदम्बरमस्य विषये कटाक्षः — ‘दश वर्षाणि तं मिथ्या सिद्धं कर्तुम्’
नवदिल्ली, २५ अगस्तमासः (हि.स.)। यूपीआई-प्रारम्भस्य दश वर्षाणि पूर्णानि जातानि। अस्य अवसरे केन्द्रीय-विद्युत्तन्त्रज्ञान-सूचनाप्रौद्योगिक्यामन्त्री अश्विनीवैष्णवः पूर्ववित्तमन्त्री पी. चिदम्बरमस्य पुरातनसंसदीयवक्तव्यं प्रति राजनैतिक-रूपेण कटाक्षं कृ
सब्जी विक्रेता क्यूआर कोड के माध्यम से भुगतान स्वीकार करते हुए


नवदिल्ली, २५ अगस्तमासः (हि.स.)। यूपीआई-प्रारम्भस्य दश वर्षाणि पूर्णानि जातानि। अस्य अवसरे केन्द्रीय-विद्युत्तन्त्रज्ञान-सूचनाप्रौद्योगिक्यामन्त्री अश्विनीवैष्णवः पूर्ववित्तमन्त्री पी. चिदम्बरमस्य पुरातनसंसदीयवक्तव्यं प्रति राजनैतिक-रूपेण कटाक्षं कृतवान्। वैष्णवः मङ्गलवासरे सामाजिकमाध्यममञ्चे एक्स इत्यत्र चिदम्बरमस्य संसदि प्रदत्तस्य पुरातनभाषणस्य चलचित्रं सहभागं कृत्वा लिखितवान्— “दश वर्षाणि तं मिथ्या सिद्धं कर्तुम्।”

वैष्णवेन सहभागकृते चलचित्रे चिदम्बरम् संसदि यूपीआई-विषये डिजिटल-भुगतानव्यवस्थां च प्रति स्वकीयाः आपत्तयः आशङ्काश्च प्रकटयन् दृश्यते। चलचित्रे तस्य पुरातनवक्तव्येन सह वर्तमानकाले शाकविक्रेतृभिः लघु-व्यापारिभिश्च क्यू.आर्.-कोड्-माध्यमेन प्रदानं स्वीकुर्वतां दृश्यानि अपि प्रदर्शितानि सन्ति।

भाजपादलेन अपि यूपीआई-प्रणाल्याः दशवर्षीयसफलतां प्रति काङ्ग्रेसदलस्य आलोचना कृता। भाजपाप्रवक्ता सम्बित्पात्रः उक्तवान् यत् चिदम्बरम् यूपीआई-प्रणाल्याः प्रारम्भं महती अशुद्धि: इति अवदत् तथा संसदि एताम् आशङ्कां प्रकटितवान् यत् निर्धनानां, शाकविक्रेतॄणां ग्रामीणक्षेत्रेषु निवसतां जनानां च कृते अस्याः डिजिटल-प्रदानव्यवस्थायाः उपयोगः कठिनः भविष्यति।

भाजपादलस्य अनुसारं चिदम्बरमस्य तत् आकलनम् अधुना यूपीआई-प्रणाल्याः वर्तमानविस्तारस्य सर्वथा विपरीतम् दृश्यते। दलेन उक्तं यत् अद्य लघुदुकानदाराणां, पथविक्रेतॄणां सामान्यजनानां च मध्ये क्यू.आर्.-कोड्-आधारितं भुगतानं अत्यन्तं सामान्यं जातम् अस्ति।

यूपीआई-प्रणाल्याः दशवर्षीययात्रायाः आधिकारिकानि आँकडानि अपि तस्याः व्यापकस्वीकारं दर्शयन्ति। २०१६-१७ तमे वर्षे १.७८ कोटि-व्यवहारैः आरभ्य २०२५-२६ तमे वर्षे यूपीआई-व्यवहारानां सङ्ख्या २४,१६२ कोटिपर्यन्तं वर्धिता। तस्मिन् एव काले व्यवहारानां मूल्यं ०.०७ लक्षकोटिरूप्यकेभ्यः वर्धित्वा ३१४ लक्षकोटिरूप्यकाणि अभवत्। २०२६ तमस्य वर्षस्य मार्चमासे यूपीआई-माध्यमेन एकस्मिन् मासे २,२६४ कोटि-व्यवहारानां नूतनः अभिलेखः स्थापितः, येषां मूल्यं २९.५३ लक्षकोटिरूप्यकाणि आसीत्।

यूपीआई-प्रणाल्याः प्रारम्भः केवलं २१ धनागारै: सह अभवत्, किन्तु अधुना तस्याः जालके ७०० तः अधिकाः बङ्काः सम्मिलिताः सन्ति। यूपीआई भारतस्य डिजिटल-भुगतानस्य प्रायः ८५ प्रतिशतं भागं वहति तथा विश्वस्य वास्तविकसमय-प्रदानव्यवहारेषु भारतस्य भागः प्रायः ४९ प्रतिशतं वर्तते।

यूपीआई-प्रणाल्याः व्यापकतायाः अनुमानम् एतस्मादपि कर्तुं शक्यते यत् व्यक्तितः व्यापारिणं प्रति क्रियमाणेषु व्यवहारेषु ८६ प्रतिशतं भुगतानं ५०० रूप्यकेभ्यः न्यूनम् अस्ति। अनेन ज्ञायते यत् लघुदुकानदारैः, पथविक्रेतृभिः दैनिकोपयोगवस्तूनां क्रयणे च यूपीआई-प्रणाल्याः उपयोगः बृहद्प्रमाणेन क्रियते।

यूपीआई अधुना भारतस्य सीमाभ्यः बहिरपि स्वस्य विस्तारं कृतवती अस्ति तथा अष्टसु देशेषु स्वीकृता भवति।

Hindusthan Samachar / Divya Ranjan