Enter your Email Address to subscribe to our newsletters

आरएसएस-सङ्घस्य अखिलभारतीय-प्रचारप्रमुखः अवदत्— भारतम् एकता-धर्मेण सम्बद्धम् अस्ति
विश्वविद्यालयस्य विकासे छात्राणां सम्मतिः अनिवार्या अस्ति : प्रो. विनयकुमारपाठकः
कानपुरम्, २५ अगस्तमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसङ्घस्य शताब्दीवर्षस्य अवसरे मङ्गलवासरे आयोजिते ‘युवासंवाद’ कार्यक्रमे राष्ट्रीयस्वयं-सेवकसङ्घस्य अखिलभारतीयप्रचारप्रमुखः सुनील आंबेकरः युवानः सम्बोधयन् उक्तवान् यत् सम्पूर्णं विश्वम् अद्य प्रगतिमार्गे अग्रसरं भारतं नूतनदृष्ट्या पश्यति। एतादृशे समये देशस्य यूनां दायित्वं भवति यत् ते अग्रे आगत्य देशं अधिकं समृद्धं, सशक्तं स्वाभिमानयुक्तं च कर्तुं स्वकीयम् योगदानं दद्युः।
सः सङ्घस्य संस्थापकं डॉ. केशवबलिरामहेडगेवारं स्मरन् अवदत् यत् अस्य सङ्घस्य आधारः देशभक्तौ देशस्य स्वाधीनतायाः मूलोद्देश्येषु च स्थापितः अस्ति। सः अवदत् यत् देशः केवलं राजनीत्या न, अपितु एकताधर्मेण सम्बद्धः अस्ति। भारतस्य महत्त्वं वर्णयन् सः उक्तवान् यत् विश्वे बहवः देशाः सन्ति, येषु कतिपयैः कार्यैः कृते अद्यापि क्षमायाचनां कर्तव्या भवति। किन्तु भारतम् एकमेव तादृशं राष्ट्रम् अस्ति यत्र अस्माकं पूर्वजैः किमपि तादृशं कार्यं न कृतं यस्य कारणेन विश्वस्य कस्मिन्नपि कोणे गत्वा अस्माभिः क्षमायाचनां कर्तव्या भवेत्।
छत्रपतिशाहूजीमहाराजविश्वविद्यालयस्य वीराङ्गनाराणीलक्ष्मीबाईसभागारे राष्ट्रीयस्वयंसेवकसङ्घस्य शताब्दीवर्षस्य अवसरे ‘युवासंवाद’ कार्यक्रमः आयोजितः। कार्यक्रमे मुख्यातिथिरूपेण विचारकः तथा राष्ट्रियस्वयंसेवकसङ्घस्य अखिल-भारतीयप्रचारप्रमुखः सुनील: आंबेकरः युवभिः सह प्रत्यक्षं संवादं कृतवान्। नववंशस्य चिन्तनम्, आकाङ्क्षाः, आव्हानानि भविष्यस्य सम्भावनाश्च विषये चर्चा अभवत्। युवभिः भारतीय-सांस्कृतिकमूल्यानि, व्यक्तिगत-स्वातन्त्र्यम्, शिक्षा तथा रोजगारः, सामाजिकमाध्यमानि, महिलासुरक्षा, राष्ट्रनिर्माणं च इत्यादिविषयेषु प्रश्नाः पृष्टाः।
प्रश्नः— भवतः मते सांस्कृतिकमूल्यानि कथम् आचरितव्यानि येन सांस्कृतिक-परम्पराः व्यक्तिगतस्वातन्त्र्ये बाधकाः न भवन्ति?
उत्तरम्—सुनील आंबेकरः : व्यक्तिगत-स्वातन्त्र्यं मनुष्यस्य स्वाभाविकी प्रवृत्तिः अस्ति, किन्तु समस्या तदा उत्पद्यते यदा एकस्य व्यक्तेः स्वातन्त्र्यं अन्यस्य व्यक्तेः स्वातन्त्र्ये बाधां जनयितुम् आरभते। भारतीयसांस्कृतिकमूल्यानि व्यक्तिगतस्वातन्त्र्यं निवारयन्ति, अपितु सर्वेषां स्वातन्त्र्यस्य सम्मानस्य च संरक्षणे सहायं कुर्वन्ति। परस्परं सम्मानः, सम्बन्धानां बोधः, त्यागः, समर्पणं सेवा च इत्यादयः मूल्याः समाजे स्वातन्त्र्यस्य सामञ्जस्यस्य च स्थापनां कर्तुं शक्नुवन्ति।
प्रश्नः— सङ्घः तथा अन्ये सामाजिक-सङ्गठनानि शिक्षायाः रोजगारक्षमतायाश्च उन्नयने किं भूमिकां निर्वोढुं शक्नुवन्ति?
उत्तरम्—आंबेकरः : विभिन्नैः सामाजिक-सङ्गठनैः माध्यमेन शिक्षा, सेवा, रोजगारः च सम्बद्धाः अनेकाः परियोजनाः सञ्चाल्यन्ते। एकलविद्यालयादयः प्रयासाः कृताः सन्ति। यत्र विद्यालयाः उपलब्धाः न सन्ति, तत्र शिक्षां प्रापयितुं प्रयासः क्रियते। तदतिरिक्तं युवभ्यः प्रशिक्षणं, मार्गदर्शनम्, उद्यमितायाः विकासः उद्योगैः सह सम्पर्कश्च स्थापयितुं दिशि अपि कार्यं क्रियते।
प्रश्नः— अद्यतनमहाविद्यालयीनविद्यार्थिभिः के पाठ्यक्रमाः कौशलानि च अधीतव्यानि ये भविष्ये प्रासङ्गिकाः तिष्ठेयुः?
उत्तरम्—आंबेकरः : विद्यार्थिभिः स्वकीय-मुख्याध्ययनस्य सह द्वित्राणि चतुर वा अतिरिक्तकौशलानि अवश्यं शिक्षितव्यानि। कृत्रिमबुद्धिमत्ता, सङ्गणकम् इत्यादीनां आधुनिक-प्राविधिकदक्षतानां सह व्यावहारिकानि हस्तप्रयोगाधारितानि कौशलानि अपि आवश्यकानि सन्ति। किमपि कौशलं लघु वा महत् वा न भवति। विद्यार्थिभिः स्वकीयाभिरुचेः क्षमतायाश्च अनुसारं कौशलं विकसित्य तस्मिन् उत्कृष्टतां प्राप्तुं प्रयत्नः करणीयः।
कार्यक्रमं सम्बोधयन् विश्वविद्यालयस्य कुलपतिः प्रोफेसरः विनयकुमारपाठकः उक्तवान् यत् शिक्षणसंस्थासु केवलम् आदेशप्रदानस्य संस्कृतिः न भवेत्, अपितु छात्रैः सह मिलित्वा आमसहमतेः सार्थक-चर्चायाश्च प्रवर्धनं भवेत्। सर्वेषु निर्णयेषु युवानां सहभागिता सुनिश्चितकर्तव्या। स्वकीयस्य सङ्घ-सम्बद्धतां स्मरन् सः अवदत् यत् कमपि लक्ष्यं प्राप्तुं व्यक्तिना केवलं बाह्यरूपेण न, अपितु आन्तरिकरूपेण अपि सज्जेन जागरूकेन च भवितव्यम्। सः युवानः विचारकाः भवितुं प्रोत्साहितवान् तथा उक्तवान् यत् चिन्तनस्य कारणादेव भारतं महान् अभवत्। अत्र एतादृशाः साधुसन्तः विचारकाश्च सन्ति ये प्रतिक्षणं चिन्तयन्ति यत् ते देशस्य कृते किं कर्तुं शक्नुवन्ति। एतद् एव उद्दिश्य सः युवभ्यः अपि नूतनां दिशां प्रति अग्रे गन्तुम् आह्वानं कृतवान्।
Hindusthan Samachar / Divya Ranjan