Enter your Email Address to subscribe to our newsletters

गुवाहाटी, २५ अगस्तमासः (हि.स.)। दिवङ्गतगायकस्य लोकप्रियकलाकारस्य च जुबिनगर्गस्य पत्नी गरिमा सैकियागर्गः मुख्यमन्त्रिणा डॉ. हिमन्तबिस्वसर्मणा जुबिन-क्षेत्रस्य निर्माणाय गृहीतपदानि प्रति कृतज्ञतां व्यक्तवती। जुबिन-क्षेत्रस्य भ्रमणं कृत्वा सा एतद् अवदत्।
गरिमा सैकियागर्गः अवदत् यत् जनानाम् अपेक्षानुसारं जुबिन-क्षेत्रे मुक्तमञ्चः, सङ्ग्रहालयः, पुस्तकालयश्च निर्मीयन्ते। सा अवदत् यत् जुबिन-क्षेत्रस्य परिखाभित्तेः निर्माणं अक्टूबर-मासपर्यन्तं पूर्णं भविष्यतीति अपेक्षा अस्ति।
सा अवदत् यत् असमस्य जनानां प्रियस्य कलाकारस्य जुबिनगर्गस्य पुण्यतिथिः त्रिदिवसीयकार्यक्रमेन आचरिष्यते। कार्यक्रमः १७ सितम्बरतः प्रारप्स्यते। प्रथमदिने सर्वधर्मप्रार्थना आयोजिता भविष्यति, द्वितीयदिने जुबिनगर्गस्य स्मृतौ सांस्कृतिककार्यक्रमः भविष्यति। अन्तिमे दिने भाओना इति पारम्परिकनाट्यस्य आयोजनं भविष्यति।
गरिमा सैकियागर्गः अवदत् यत् विविधकार्यक्रमैः जुबिनगर्गस्य जीवनं, कला, योगदानं च स्मरिष्यते।
Hindusthan Samachar / Divya Ranjan