Enter your Email Address to subscribe to our newsletters

पाटलिपुत्रम्, २५ अगस्तमासः (हि.स.)। पूर्वमुख्यमन्त्री स्वर्गीयः बिन्देश्वरीप्रसाद-मण्डलस्य जयन्त्यवसरे मङ्गलवासरे तस्य आदमकदप्रतिमायां राज्यपालः लेफ्टिनेन्ट्-जनरल (सेवानिवृत्तः) सैयद्-अता-हसनैनः मुख्यमन्त्री सम्राट् चौधरी च माल्यार्पणं कृत्वा तस्मै भावपूर्णां श्रद्धाञ्जलिं समर्पितवन्तौ।
पाटलिपुत्रस्य देशरत्नमार्गे सर्कुलरपथ-चतुष्पथे च स्थितायाः आदमकदप्रतिमायाः समीपे जन्मदिवसस्य अवसरे राजकीय-समारोहः आयोजितः।
अस्मिन् अवसरे उपमुख्यमन्त्री विजयकुमारचौधरी, ग्रामीणविकासमन्त्री श्रवणकुमारः, सहकारितामन्त्री राम-कृपालयादवः, विधायकः श्यामरजकः, विधानपार्षदः सञ्जयकुमारसिंहः उर्फ गांधीजी, अन्ये जनप्रतिनिधयः, पूर्वमुख्यमन्त्रिणः स्वर्गीयस्य बिन्देश्वरी-प्रसादमण्डलस्य पौत्रः डॉ. मनीषमण्डलः तस्य परिजनाश्च सहितं बहवः सामाजिकाः राजनैतिकाः कार्यकर्तारश्च पूर्वमुख्य-मन्त्रिणः स्वर्गीयस्य बिन्देश्वरीप्रसाद-मण्डलस्य प्रतिमायां पुष्पाणि अर्पयित्वा तस्मै श्रद्धाञ्जलिं समर्पितवन्तः।
अस्मिन् अवसरे सूचनाजन-सम्पर्कविभागस्य कलाकारैः आरार्तिकी-पूजनम्, राष्ट्रीयगीतस्य, राष्ट्रगानस्य, बिहारगीतस्य देशभक्तिगीतानां च गायनम् अपि कृतम्।
Hindusthan Samachar / Divya Ranjan