विज्ञानभारतीं जनमानसेन सह संयोजयितुं पदाधिकारिणां विशेषोपवेशनम्
जोधपुरम्, २५ अगस्तमासः (हि.स.)। विज्ञानभारत्याः राजस्थानस्य संरक्षकस्य भौतिकविज्ञानस्य च प्रख्यातविदुषः प्रो. पुरुषोत्तमपराञ्जपे-महोदयस्य सान्निध्ये विज्ञानभारत्याः जोधपुरप्रान्तस्य महा-नगरस्य च पदाधिकारिणां विशेषोपवेशनम् आयोजितम्। उपवेशने सङ्गठनस्
jodhpur


जोधपुरम्, २५ अगस्तमासः (हि.स.)। विज्ञानभारत्याः राजस्थानस्य संरक्षकस्य भौतिकविज्ञानस्य च प्रख्यातविदुषः प्रो. पुरुषोत्तमपराञ्जपे-महोदयस्य सान्निध्ये विज्ञानभारत्याः जोधपुरप्रान्तस्य महा-नगरस्य च पदाधिकारिणां विशेषोपवेशनम् आयोजितम्। उपवेशने सङ्गठनस्य विस्तारः, गतिविधीनां अधिकप्रभावी-करणम्, विज्ञानस्य जनमानसं प्रति प्रसारणम् तथा भारतीयज्ञानविज्ञानस्य गौरवशालिनीं परम्परां आधुनिक-वैज्ञानिकदृष्टिकोणेन सह समाजस्य पुरतः प्रस्तुतिकरणम् इत्यादिषु विविधेषु विषयेषु विस्तरेण चर्चा कृता।

प्रो. पराञ्जपे-महोदयः उक्तवान् यत् विज्ञानभारत्याः उद्देश्यं केवलं वैज्ञानिकगतिविधिभ्यः सीमितं न भूत्वा विज्ञानं समाजस्य प्रत्येकं वर्गाय प्रापयितुं तथा जनमाने वैज्ञानिकदृष्टिकोणस्य विकासः करणीयः इति अस्ति। एतदर्थं विद्यालयेषु, महाविद्यालयेषु, विश्वविद्यालयेषु, प्राविधिकेषु व्यावसायिकेषु च संस्थानेषु तथा सामान्यसमाजे निरन्तरं संवादाः गतिविधयश्च आयोजनीयाः। तेन उक्तं यत् भारतस्य वैज्ञानिकपरम्परायाः विषये उपलब्धाः सामग्रीः, शोधकार्याणि प्राचीनग्रन्थाश्च सुव्यवस्थितरूपेण सङ्कलयित्वा शोधमालाभिः, प्रकाशनैः डिजिटलमाध्यमैश्च समाजं प्रति प्रापणीयाः। भारतीयवैज्ञानिकान् तेषां योगदानं च नववंशस्य पुरतः स्थापयित्वा आधुनिकविज्ञानस्य भारतीयज्ञान-परम्परायाश्च मध्ये संवादस्य स्थापना समयस्य आवश्यकता अस्ति।

उपवेशने सङ्गठनस्य संरचनां सुदृढीकर्तुम्, विविधदायित्वानां स्पष्टतां, नियमितोपवेशनानां प्रतिवेदन-व्यवस्थायाश्च निर्धारणं तथा विषयविशेषज्ञानां सङ्गठने संयोजनम् इत्येतेष्वपि चर्चा कृता। अभियान्त्रिकी, पालिटेक्निक्, कृषिः तथा अन्येषु विषयेषु सम्बद्धान् विशेषज्ञान् शिक्षाविदश्च विज्ञानभारत्याः गतिविधिभिः संयोज्य व्यापकस्तरे कार्यं कर्तुं विचार: प्रदत्तः। उपवेशने विज्ञानभारती-जोधपुरप्रान्तस्य अध्यक्षः डॉ. नरेन्द्रकुमारजैनः, प्रो. अनिलगुप्तः, प्रो. अम्बेशदीक्षितः, डॉ. महेशचन्द्रशर्मा, डॉ. कुलदीपसिंहः, डॉ. भरतभट्टः, डॉ. शिवकुमारगोडः तथा डॉ. विशुवैष्णवः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan