योगीसर्वकारस्य अभ्युदय योजनया संवर्यते प्रतियोगिच्छात्राणां भविष्यम्
कानपुरे ३०८ युवानः प्राप्नुवन्ति निःशुल्कं प्रशिक्षणम् त्रिषु केन्द्रेषु प्रचलन्ति यू.पी.एस.सी., नीट्, जेईई तथा एस.एस.सी. परीक्षाणां कक्ष्याः गोविन्दनगरे डी.बी.एस. महाविद्यालये शीघ्रमेव उद्घाटयिष्यते नवीनं केन्द्रम्, २५० नूतनछात्रेभ्यः भविष्यति ल
योजना संबंधित लोगो


कानपुरे ३०८ युवानः प्राप्नुवन्ति निःशुल्कं प्रशिक्षणम्

त्रिषु केन्द्रेषु प्रचलन्ति यू.पी.एस.सी., नीट्, जेईई तथा एस.एस.सी. परीक्षाणां कक्ष्याः

गोविन्दनगरे डी.बी.एस. महाविद्यालये शीघ्रमेव उद्घाटयिष्यते नवीनं केन्द्रम्, २५० नूतनछात्रेभ्यः भविष्यति लाभः

कानपुरम्, २६ अगस्तमासः (हि.स.)। प्रतियोगितापरीक्षाणां सिद्धतां कुर्वतां यूनां स्वप्नानां साकारतायै योगिसर्वकारस्य ‘मुख्यमन्त्री अभ्युदययोजना’ कानपुरनगरे वरदाना इव सिद्धा भवति। वित्तीयवर्षस्य २०२६–२७ अन्तर्गतं जनपदे सञ्चाल्यमानेषु विभिन्नकेन्द्रेषु छात्रेभ्यः छात्राभ्यश्च सिविलसेवाभ्यः आरभ्य नीट्-जेईई इत्यादीनां कठिनपरीक्षाणां निःशुल्कं प्रशिक्षणं प्रदीयते। सम्प्रति कानपुरस्य त्रिषु प्रमुखकेन्द्रेषु कुलतः ३०८ छात्राः पञ्जीकृताः सन्ति, येषां विषयविशेषज्ञैः तथा एम्पैनल्-कृतैः शिक्षकैः निःशुल्कं मार्गदर्शनं क्रियते।

जनपदे मुख्यमन्त्री-अभ्युदययोजनायाः विस्तारः निरन्तरं क्रियते, येन ग्रामीणक्षेत्राणां नगरीयक्षेत्राणां च मेधाविनः छात्राः स्वगृहस्य समीपे एव उत्तमं प्रशिक्षणं प्राप्तुं शक्नुयुः। छत्रपतिशाहूजीमहाराजविश्वविद्यालये यू.पी.एस.सी. तथा यू.पी.पी.एस.सी. परीक्षयोः सिद्धतायै १४४ छात्राः पञ्जीकृताः सन्ति, यत्र २१ अनुभवीशिक्षकाः मार्गदर्शनं कुर्वन्ति।

तत्रैव, राजकीय-आश्रमपद्धतिविद्यालये कल्याणपुरे नीट् तथा जेईई परीक्षयोः सिद्धता कारयिते। तत्र ५३ नीट् तथा ३२ जेईई इति कुलतः ८५ छात्राः नामाङ्किताः सन्ति तथा अत्र अष्टौ एम्पैनल्-कृताः विषयविशेषज्ञाः सेवां प्रददति। अपरतः रामसहायराजकीयमहाविद्यालये बैरी-शिवराजपुरे एस.एस.सी. परीक्षायाः सिद्धतायै ७९ छात्राः सम्बद्धाः सन्ति तथा अत्र १७ शिक्षकाः सेवां कुर्वन्ति।

छात्राणां सुविधां दृष्ट्वा प्रशासनम् अधुना अस्याः योजनायाः अधिकविस्तारं कर्तुं सज्जं भवति। शीघ्रमेव गोविन्दनगरे स्थिते डी.बी.एस. महाविद्यालये एस.एस.सी. परीक्षायाः सिद्धतायै नूतनं केन्द्रं प्रारभ्यते। अस्य कृते निदेशालयाय अनुमतेः प्रस्तावः प्रेषितः अस्ति तथा अनुमतिः प्राप्तमात्रेण अत्र कक्ष्याः प्रारप्स्यन्ते। नूतनकेन्द्रस्य प्रारम्भेन २५० अधिकाः प्रतियोगीछात्राः प्रत्यक्षरूपेण लाभान्विताः भविष्यन्ति।

जिलासमाजकल्याणाधिकारी शिवम्सागरः बुधवासरे अवदत् यत् मुख्यमन्त्री-अभ्युदययोजनायाः मुख्योद्देश्यं आर्थिकरूपेण दुर्बलानां प्रतिभाशालिनां च छात्राणां कृते प्रतियोगितापरीक्षाणां सिद्धतायै गुणवत्तापूर्णं निःशुल्कं प्रशिक्षणं प्रदातुम् अस्ति। कानपुरनगरे अस्मिन् सत्रे ३०८ छात्राः विभिन्नपरीक्षाणां सिद्धतां कुर्वन्ति। वयं सुनिश्चितं कुर्मः यत् छात्रेभ्यः श्रेष्ठाध्ययनसामग्री तथा विषयविशेषज्ञाणां मार्गदर्शनं प्राप्येत, येन ते स्वपरीक्षासु सफलतां प्राप्तुं शक्नुयुः।

मुख्यविकासाधिकारी (सी.डी.ओ.) अभिनव जे. जैनः अवदत् यत् प्रदेशसर्वकारस्य एषा योजना युवानां भविष्यं श्रेष्ठदिशायां नेतुं अत्यन्तं सार्थकः प्रयासः अस्ति। कानपुरनगरे अभ्युदययोजनायाः क्रियान्वयनं पूर्णपारदर्शितया दृढतया च क्रियते। छात्रेभ्यः उत्तमसुविधाः प्रदातुं सह अधुना डी.बी.एस. महाविद्यालये गोविन्दनगरे नूतनकेन्द्रस्य उद्घाटनस्य सिद्धता क्रियते। जिलाप्रशासनं छात्राणां उज्ज्वलभविष्याय पूर्णतया प्रतिबद्धम् अस्ति।

Hindusthan Samachar / Dheeraj Maithani