असमस्य मुख्यमंत्री केंद्रीय ऊर्जा मंत्री मनोहर लालेन अकरोत् मेलनम्
गुवाहाटी, 26 अगस्तमासः (हि.स.)। असमस्य मुख्यमन्त्री हिमन्तविश्वसरमा बुधवासरे केन्द्रीय-ऊर्जामन्त्री तथा आवास-नगरीयकार्य-मन्त्री मनोहरलालखट्टर इत्यनेन सह मिलित्वा राज्यस्य दीर्घकालिकानां ऊर्जाआवश्यकतानां, विद्युद्व्यवस्थायाः तथा नगरीयविकाससम्बद्धा
Assam CM Meeting Union Power Minister.


गुवाहाटी, 26 अगस्तमासः (हि.स.)।

असमस्य मुख्यमन्त्री हिमन्तविश्वसरमा बुधवासरे केन्द्रीय-ऊर्जामन्त्री तथा आवास-नगरीयकार्य-मन्त्री मनोहरलालखट्टर इत्यनेन सह मिलित्वा राज्यस्य दीर्घकालिकानां ऊर्जाआवश्यकतानां, विद्युद्व्यवस्थायाः तथा नगरीयविकाससम्बद्धानां विषयाणां चर्चा कृतवान्। सभायाम् असमं ऊर्जाक्षेत्रे आत्मनिर्भरं कर्तुं तथा उपभोक्तृहितैषिणः सुधारान् अग्रे नेतुं विषये विचारविमर्शः अभवत्। केन्द्रीयविद्युत्-उत्पादनकेन्द्रेभ्यः राज्याय आवण्टितायाः विद्युतः अधिकतर्कसङ्गतस्य उपयोगस्य विषयेऽपि चर्चा अभवत्।

गुवाहाटीनगरे विद्युद्वितरणव्यवस्थां सुदृढां कर्तुं भूमिगतविद्युत्केबलस्थापनस्य प्रस्तावस्य तथा विद्युत्-उत्पादने प्राकृतिकवायोः उत्तमोपयोगस्य, तस्य उपलब्धतायाः मूल्यसम्बद्धानां विषयाणां च विषयेऽपि वार्ता अभवत्। मुख्यमन्त्रिणा अर्बन् चैलेञ्ज् फण्ड् इत्यस्य अन्तर्गतं असमस्य प्रस्तावस्य विषयेऽपि चर्चा कृता। अस्य माध्यमेन स्वास्थ्यसेवा, क्रीडा तथा जलवायुसहनशीलमूलभूतसंरचनायाः उपरि केन्द्रितं एकीकृतं नगरीयक्षेत्रं विकसितुं लक्ष्यं वर्तते।

सभायाः अनन्तरं उभयोः पक्षयोः असमे स्थायि, सुदृढं तथा उपभोक्तृकेन्द्रितं ऊर्जायाः नगरीयमूलभूतसंरचनायाश्च विकासं प्रोत्साहयितुं स्वप्रतिबद्धतायाः पुनरुक्तिः कृता।

----------

Hindusthan Samachar / Dheeraj Maithani