असमे प्रधानमन्त्री-आवास-योजनायाः अन्तर्गतं ३.८ लक्षाधिकानि नूतनानि गृहाणि निर्मीयन्ते, ५,००० कोटिरूप्यकाणां निवेशः
गुवाहाटी, २६ अगस्तमासः (हि.स.)। आपदापीडितेभ्यः निराश्रितेभ्यश्च जनाभ्यः महती सौविध्य-वार्ता अस्ति। प्रधानमन्त्री-आवास-योजनायाः अन्तर्गतं असमे ३.८ लक्षाधिकानि नूतनानि गृहाणि निर्मीयन्ते। एतदर्थं राज्ये प्रायः ५,००० कोटिरूप्यकाणां निवेशः करिष्यते। अ
The Illustration shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, २६ अगस्तमासः (हि.स.)। आपदापीडितेभ्यः निराश्रितेभ्यश्च जनाभ्यः महती सौविध्य-वार्ता अस्ति। प्रधानमन्त्री-आवास-योजनायाः अन्तर्गतं असमे ३.८ लक्षाधिकानि नूतनानि गृहाणि निर्मीयन्ते। एतदर्थं राज्ये प्रायः ५,००० कोटिरूप्यकाणां निवेशः करिष्यते।

अस्याः योजनायाः माध्यमेन जलौघेन अन्याभिश्च प्राकृतिकापदाभिः प्रभावितानां बहूनां परिवाराणां कृते स्थायी-आवासस्य व्यवस्था कर्तुं साहाय्यं भविष्यति।

अपि च कृषिक्षेत्रस्य विकासाय असम-राज्याय अतिरिक्ततया १३९ कोटि-रूप्यकाणां सहाय्यं प्राप्स्यते।

एतेषां विषयाणां सम्बन्धे असमस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसर्मा केन्द्रीयकृषिमन्त्रिणा कृषककल्याण-मन्त्रिणा च शिवराजसिंह-चौहानेन सह सभां कृतवान्। सभायां आवासस्य, कृषिविकासस्य, जलौघस्य प्रभावितेभ्यः जनेभ्यः सहाय्यस्य च सम्बन्धितेषु विविधविषयेषु चर्चा अभवत्।

Hindusthan Samachar / Divya Ranjan