राहुलगान्धिनः ‘पितृसत्तां भङ्क्त’ इति वक्तव्यं प्रति भाजपापक्षेण काङ्ग्रेसं लक्ष्यीकृता, उक्तं—वक्तव्यं केवलं राजनैतिकाडम्बरम्
नवदिल्ली, २६ अगस्तमासः (हि.स.)। भारतीयजनतापार्टी इत्यस्याः सांसद् बांसुरी स्वराजः विपक्षनेता राहुलगान्धिनः “पितृसत्तां भङ्क्त” इति वक्तव्यं प्रति काङ्ग्रेस्-पक्षं तीव्रतया लक्ष्यीकृतवती। भाजपया आरोपितं यत् राहुलगान्धी महिलानां सम्मानस्य विषये द्वैध
सांसद बांसुरी स्वराज


नवदिल्ली, २६ अगस्तमासः (हि.स.)। भारतीयजनतापार्टी इत्यस्याः सांसद् बांसुरी स्वराजः विपक्षनेता राहुलगान्धिनः “पितृसत्तां भङ्क्त” इति वक्तव्यं प्रति काङ्ग्रेस्-पक्षं तीव्रतया लक्ष्यीकृतवती। भाजपया आरोपितं यत् राहुलगान्धी महिलानां सम्मानस्य विषये द्वैधवृत्तिम् आश्रयन्ति तथा तस्य वक्तव्यं केवलं राजनैतिकाडम्बरम् अस्ति।

भाजपया बुधवासरे आयोजितायां पत्रकारवार्तायां सांसद् बांसुरी स्वराजः उक्तवती यत् राहुलगान्धिना अगस्त-मासस्य २२ दिनाङ्के पुणेनगरस्य मञ्चात् “पितृसत्तां भङ्क्त” इति घोषः कृतः, किन्तु स्वकीयायामेव पक्षमध्ये विद्यमानायां “राजनैतिक-पितृसत्तायाम्” कदापि प्रश्नः न उत्थापितः। सा उक्तवती यत् राहुलगान्धिनः समीपे न कश्चित् दूरदर्शी दृष्टिकोणः अस्ति, न च कश्चित् सकारात्मकः कार्यसूची-विषयः; अतः ते केवलं सामाजिकमाध्यमेषु वक्तव्यानि प्रयच्छन्ति।

सा काङ्ग्रेस्-पक्षस्य महिलाविरोधी-मानसिकतायाः आरोपं कुर्वती उक्तवती यत् यदा भाजपासांसदायै कङ्गनारनौत इत्यस्यै मण्डीतः निर्वाचनस्य टिकटं प्राप्तम्, तदा काङ्ग्रेस-नेत्री सुप्रिया श्रीनेत् इत्यस्याः सामाजिकमाध्यमतः तस्याः विरुद्धम् अभद्रा टिप्पणी कृता, किन्तु राहुलगान्धिना तस्यां विषये कापि आपत्तिः न प्रकटिता। तथैव रणदीपसुरजेवाला-द्वारा हेमामालिनीं प्रति कृता टिप्पणी तथा अधीररञ्जनचौधरी-द्वारा राष्ट्रपतिं द्रौपदीमुर्मुं ‘राष्ट्रपत्नी’ इति सम्बोधनं प्रति अपि काङ्ग्रेस-नेतृत्वं मौनमेव आसीत्।

भाजपासांसदा प्रश्नं कृतवती यत् यदि राहुलगान्धी वास्तवमेव पितृसत्तां समाप्तुं इच्छन्ति, तर्हि काङ्ग्रेस-शासितयोः कर्णाटक-हिमाचलप्रदेशयोः मन्त्री-मण्डलयोः एकापि महिला-मन्त्री किमर्थं नास्ति। सा आरोपितवती यत् महिला-सशक्तीकरणं काङ्ग्रेस्-पक्षस्य कृते केवलं राजनैतिकघोषणामात्रम् अस्ति तथा च एतस्याः एव मानसिकतायाः कारणात् तेन ‘नारीशक्तिवन्दन-अधिनियमस्य’ विरोधः कृतः।

बांसुरी स्वराजः शाहबानो-प्रकरणस्य त्रितलाक-न्यायस्य च उल्लेखं कृत्वा उक्तवती यत् काङ्ग्रेस-पक्षेण सदैव महिलानाम् अधिकाराणाम् अपेक्षया तुष्टीकरणस्य राजनीतिः प्राथमिकतया स्वीकृता। सा राहुलगान्धिनः अपृच्छत् यत् यदि ते वास्तवमेव महिलानाम् अधिकाराणां समर्थकाः सन्ति, तर्हि एतेषु विषयेषु काङ्ग्रेस्-पक्षस्य पक्षः कः आसीत्।

सा काङ्ग्रेस्-पक्षस्य ‘वन्देमातरम्’ इत्यस्य विषये स्वीकृतं निर्णयमपि लक्ष्यीकृतवती तथा उक्तवती यत् यदि राहुलगान्धी वास्तवमेव सर्वप्रकारस्य पितृसत्तायाः विरोधं कर्तुम् इच्छन्ति, तर्हि ते सम्पूर्णं ‘वन्देमातरम्’ गीतं गेयं कुर्वन्तु। बांसुरी स्वराजः आरोपितवती यत् काङ्ग्रेस-पक्षेण तुष्टीकरणस्य राजनीतेः कारणात् ‘वन्देमातरम्’ इत्यस्य गौरवं त्यक्तम्।

Hindusthan Samachar / Divya Ranjan