Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 26 अगस्तमासः (हि.स.)।दिल्लीप्रदेशस्य मुख्यमन्त्री रेखा गुप्ता बुधवासरे तालकटोरा-क्रीडाङ्गणे आयोजिते कार्यक्रमे ‘दिल्ली लक्ष्मी योजना’ इत्यस्य आधिकारिकं शुभारम्भम् अकरोत्। अस्मिन् अवसरे मुख्यमन्त्रिणा योजनायाः अन्तर्गतं पात्राभ्यः महिलाभ्यः स्वीकृतिपत्राणि आर्थिकसहायता च प्रदत्ता। मञ्चे ६५ पात्राभ्यः महिलाभ्यः प्रमाणपत्राणि प्रदत्तानि।
अस्मिन् कार्यक्रमे प्रायः २,५०० पात्राः महिलाः उपस्थिताः आसन्। योजनायाः अन्तर्गतं लाभार्थिनीभ्यः २,५०० रूप्यकाणां आर्थिकसहायता प्रदीयते।
मुख्यमन्त्री रेखा गुप्ता अवदत् यत् पात्राणां महिलानां आर्थिकरूपेण सशक्तीकरणं तथा च ताभ्यः विविधासु योजनासु प्रत्यक्षलाभस्य उपलब्धीकरणं शासनस्य उद्देश्यम् अस्ति।
कार्यक्रमे दिल्लीप्रदेशस्य उपराज्यपालः तरणजीतसिंहसन्धुः, शिक्षामन्त्री आशीष सूदः, लोकनिर्माणमन्त्री प्रवेश वर्मा, संस्कृतिमन्त्री कपिल मिश्रः, पर्यावरणमन्त्री मनजीन्दर सिंह सिरसा, दिल्लीभाजपाध्यक्षः हर्ष मल्होत्रः, सांसदौ प्रवीण खण्डेलवालः, कमलजीत सहरावत्, बाँसुरी स्वराजः इत्यादयः अनेकाः विधायकाः अन्ये च जनप्रतिनिधयः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani