मुख्यमन्त्रिणा विष्णुदेवसायेन अद्य बलरामपुरस्य जशपुरस्य च जनपदयोः भ्रमणं करिष्यते, विकासकार्याणां लोकार्पणं भूमिपूजनं च करिष्यति
रायपुरम्, २६ अगस्तमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः अद्य बुधवासरे बलरामपुरस्य जशपुरस्य च जनपदयोः भ्रमणं करिष्यति। निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री प्रातः ११:३५ वादने स्वामी-विवेकानन्दविमानपत्तने सम्प्राप्स्यति। ततः सः हेलिकॉप्टरयानेन ब
मुख्यमंत्री विष्णुदेव साय


रायपुरम्, २६ अगस्तमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः अद्य बुधवासरे बलरामपुरस्य जशपुरस्य च जनपदयोः भ्रमणं करिष्यति। निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री प्रातः ११:३५ वादने स्वामी-विवेकानन्दविमानपत्तने सम्प्राप्स्यति। ततः सः हेलिकॉप्टरयानेन बलरामपुर-जनपदस्य राजपुराय प्रस्थास्यति।

राजपुरस्य कर्रा-ग्रामे मुख्यमन्त्री श्रीमहारुद्रयज्ञे शिवमहापुराणकथायां च सम्मिलितः भविष्यति। तदनन्तरं सः जशपुरजनपदस्य पण्डरीपानीं प्राप्स्यति, यत्र महतारीसदने आयोजिते कार्यक्रमे विविधविकासकार्याणां लोकार्पणं भूमिपूजनं च करिष्यति।

मुख्यमन्त्री विभागीयानां प्रदर्शनीकक्षाणां निरीक्षणं करिष्यति तथा महिलाभिः सह संवादमपि करिष्यति। अस्मिन् क्रमे पण्डरीपानीस्थले भारतीयस्टेटबैंकस्य इत्यस्या: नूतनशाखायाः उद्घाटनमपि करिष्यति।

निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री सायं ४:४५ वादने बगियास्थितं स्वकीयम् निजनिवासं प्राप्स्यति, यत्र सः रात्रिविश्रामं करिष्यति।

Hindusthan Samachar / Divya Ranjan