प्रवासी-राजस्थानिनः परिवर्तमाने राजस्थाने अधिकाधिकं निवेशं कुर्वन्तु — मुख्यमन्त्री भजनलालशर्मा
जयपुरम्, २६ अगस्तमासः (हि.स.)। मुख्यमन्त्री भजनलालशर्मा अवदत् यत् राजस्थाने निवेशानुकूलं वातावरणं निर्मातुं राज्यसर्वकारः आधारभूतसंरचनायाः सुदृढीकरणे विशेषं ध्यानं ददाति। सः अवदत् यत् जलस्य, विद्युतः, मार्गाणां च सहितेषु विविधक्षेत्रेषु उल्लेखनीयान
मुख्यमंत्री भजनलाल शर्मा


जयपुरम्, २६ अगस्तमासः (हि.स.)। मुख्यमन्त्री भजनलालशर्मा अवदत् यत् राजस्थाने निवेशानुकूलं वातावरणं निर्मातुं राज्यसर्वकारः आधारभूतसंरचनायाः सुदृढीकरणे विशेषं ध्यानं ददाति। सः अवदत् यत् जलस्य, विद्युतः, मार्गाणां च सहितेषु विविधक्षेत्रेषु उल्लेखनीयानि कार्याणि क्रियमाणानि सन्ति, येन प्रदेशे निवेशकेभ्यः आवश्यकसुविधानाम् विस्तारः भवति। मुख्यमन्त्री भजनलाल-शर्मा राजस्थान-फाउण्डेशन इत्यस्य अष्टानां चैप्टर-इत्येतेषां प्रतिनिधिभिः सह संवादं कुर्वन् अवदत् यत् राज्यसर्वकारः उद्योगानां निवेशस्य च कृते अनुकूलं वातावरणं प्रदातुं, आधारभूत-सुविधानाम् विस्तारं कर्तुं प्रक्रियाश्च सरलीकर्तुं निरन्तरं कार्यं कुर्वन् अस्ति। सः प्रवासी-राजस्थानिनः परिवर्त-मानस्य राजस्थाने अधिकाधिकं निवेशं कर्तुम् आहूतवान्।

सः अवदत् यत् प्रवासी-राजस्थानिनः प्रदेशस्य मृत्तिकायाः सुगन्धं सम्पूर्णे विश्वे प्रसारयन्ति तथा स्वसंस्कृतेः, परम्परायाः, ऐतिहासिकगौरवस्य च प्रतिष्ठां वर्धयन्ति। प्रवासी-राजस्थानिभिः स्वमातृभूमिं प्रति प्रेम्णा योगदानभावनया च ‘कर्मभूमितः मातृभूमिम्’ इति अभियानस्य माध्यमेन स्वभावना प्रदर्शिता तथा पूर्णोत्साहेन, निष्ठया, उत्तरदायित्वेन च स्वभागीदारी निर्व्यूढा। सः अवदत् यत् प्रधानमन्त्री-नरेन्द्रमोदिनः ‘विकासोऽपि, विरासतोऽपि’ इति मूलमन्त्रस्य अनुरूपं अस्माकं सर्वकारेण शेखावाटीप्रदेशस्य ६६२ ऐतिहासिकहवेलीनां संरक्षणार्थं चिह्नीकरणमपि कृतम्।

मुख्यमन्त्री अवदत् यत् राजस्थान-फाउण्डेशनं प्रवासी-राजस्थानिनः प्रदेशेन सह संयोजयितुं तैः सह निरन्तरं संवादं स्थापयितुं च महत्त्वपूर्णां भूमिकां निर्वहति। सः निर्देशं दत्तवान् यत् राजस्थान-फाउण्डेशन इत्यस्य चैप्टर-सभाः समये समये आयोज्येरन्, येन प्रवासी-राजस्थानिनां सुझावानां अनुभवानाञ्च लाभः राज्येन प्राप्तुं शक्येत। सहैव राजस्थान-फाउण्डेशनस्य युवा-महिला-विभागयोः शीघ्रं सञ्चालनमपि सुनिश्चितं भवेत्।

उल्लेखनीयम् अस्ति यत् राजस्थान-फाउण्डेशनस्य देशविदेशयोः मिलित्वा कुलं ४० चैप्टर्-सदस्यानि सन्ति। तेषु प्रथमचरणे अहमदाबादतः, देहलीतः, दोहातः, पुणेतः, सूरतः, म्यूनिखतः, कुवैततः, मस्कटतः च अष्टानां चैप्टर-प्रतिनिधिभिः सह मुख्यमन्त्रिणा वीसी-माध्यमेन संवादः कृतः। मुख्यमन्त्री प्रतिमासं सर्वेभ्यः चैप्टर-प्रतिनिधिभ्यः निवेशसम्बद्धानां प्रयासानां, सांस्कृतिककार्यक्रमाणां, सामाजिक-क्रियाकलापानां च प्रगतिवृत्तान्तं प्राप्नोति। सभायां अतिरिक्तमुख्यसचिवेन शिखर-अग्रवालेन सह सम्बन्धितविभागानां अधिकारिणः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan