Enter your Email Address to subscribe to our newsletters

नैनीतालम्, २६ अगस्तमासः (हि.स.)। ऋतुपरिवर्तनस्य दृष्ट्या ऋतुकालिक-इन्फ्लुएञ्जा-रोगस्य श्वसनतन्त्रसम्बद्धानां रोगाणां च सम्भावितवृद्धिं दृष्ट्वा नैनीतालस्य मुख्यचिकित्साधिकारी डॉ. रश्मिः पन्तः जनपदस्य सर्वेभ्यः स्वास्थ्यसंस्थानेभ्यः सतर्कतां स्थापयितुं निर्देशान् प्रदत्तवती। सा आवश्यकौषधानि, प्राणवायुम्, चिकित्सासामग्रीम्, उपचार-व्यवस्थाः च सुव्यवस्थिताः स्थापयितुं निर्देशितवती।
सीएमओ आमजनान् आह्वयत् यत् ज्वरः, कासः, कण्ठे खरता, नासिकायाः स्रावः, शरीरपीडा अथवा श्वासग्रहणस्य काठिन्यम् इत्यादीन् लक्षणान् उपेक्षितान् न कुर्वन्तु। सा पर्याप्तं विश्रामं कर्तुं, द्रवपदार्थानां सेवनं कर्तुं तथा चिकित्सकीयपरामर्शं विना प्रतिजैविकौषधानां प्रयोगं न कर्तुं च परामर्शं दत्तवती। सा अवदत् यत् गम्भीरलक्षणानि दृश्यन्ते चेत् तत्कालं समीपस्थं स्वास्थ्यकेन्द्रं गत्वा चिकित्सकीयपरामर्शं गृह्णन्तु। ऋतु-कालिकज्वरात् भयभीतस्य भवितुं आवश्यकता नास्ति, किन्तु असावधानतामपि न कर्तव्यम्। समये रोगलक्षणानां परिचयः, समुचितः उपचारः, सावधानी च एव सर्वाधिकप्रभावी सुरक्षा अस्ति।
Hindusthan Samachar / Divya Ranjan