Enter your Email Address to subscribe to our newsletters

विमाननस्य इतिहासे अगस्तमासस्य २७ दिनाङ्कः अस्य परिवर्तनस्य महत्त्वपूर्णा श्रृंखलाम् इव अभिलिखितः अस्ति। १९३९ तमे वर्षे अस्मिन् दिने जर्मनीदेशे जेट्-इञ्जिनेन सञ्चालितं विश्वस्य प्रथमं विमानं हेन्केल् ही-१७८ इत्याख्यं प्रथमवारं सफलतया आकाशे उड्डीतम्। अस्य ऐतिहासिकस्य उड्डयनस्य कारणेन आधुनिकजेट्-विमाननस्य विकासस्य दिशि नूतन: अध्यायः उद्घाटितः।
जर्मनीयः विमाननिर्माता अभियन्ता च अर्न्स्टहाइन्केल इत्यस्य नेतृत्वे निर्मितमिदं विमानं तस्मिन् काले प्रचलितायाः प्रौद्योगिक्याः अपेक्षया अत्यन्तं भिन्नम् आसीत्। ही-१७८ विमाने टर्बोजेट्-इञ्जिनस्य प्रयोगः कृतः आसीत्, येन भविष्यस्य तीव्रगतेः यात्रिविमानानां सैनिकविमानानां च आधारशिलां स्थापयितुं महत्त्वपूर्णं योगदानम् अभवत्।
यद्यपि एतत् विमानं जर्मनीयवायुसेनायां न समावेशितम्, तत्कालीनैः सैनिका-धिकारिभिः च अस्य विकासाय अपेक्षितं समर्थनं न प्रदत्तम्। तथापि जेट्-प्रौद्योगिक्याः विषये अनुसन्धानं प्रयोगाश्च अनुवर्तिताः। परवर्तिकालेषु एतस्याः प्रौद्योगिक्याः कारणेन विमाननक्षेत्रे क्रान्तिकारी परिवर्तनानि अभवन्। अद्य विश्वस्य अधिकांशानि आधुनिक-यात्रिविमानानि जेट्-इञ्जिनानां शक्त्या आकाशे उड्डीयन्ते।
महत्त्वपूर्णाः घटनाः
१६०४ — अमृतसरे स्थिते स्वर्णमन्दिरे आदिगुरुग्रन्थसाहिबस्य प्रतिष्ठापना कृता।१७८१ — हैदरअलीना ब्रिटिशसेनायाः विरुद्धं पल्लीलोर-युद्धं कृतम्।१९३९ — जेट्-इन्धनेन सञ्चालितं विश्वस्य प्रथमं विमानं जर्मनीदेशात् प्रथमवारम् उड्डीतम्।१८७० — भारतस्य प्रथमस्य श्रमिकसङ्गठनरूपेण श्रमजीवीसङ्घस्य स्थापना कृता।१९७६ — भारतीयसशस्त्रसेनायाः प्रथमया महिला-महासेनापतिना मेजर् जनरल् जी. अली राम् इत्याख्यया सैन्यपरिचर्यासेवायाः निदेशकपदं प्राप्तम्।१९७९ — आयर्लैण्ड्-देशस्य समीपे एकस्याः नौकायाः विस्फोटः अभवत्।१९८५ — नाइजेरियादेशे सैनिकक्रान्त्या मेजर् जनरल् मुहम्मद् बुहारी इत्यस्य शासनं अपसारितम् तथा च जनरलइब्राहिम: बाबनगिदा नूतनः सैनिकशासकः अभवत्।१९९० — वाशिङ्गटन-स्थितस्य इराकी-दूतावासस्य ५५ कर्मचारिषु ३६ कर्मचारिणः अमेरिकादेशेन निष्कासिताः।१९९१ — माल्दोवा-सर्वकारेण सोवियतसङ्घात् स्वतन्त्रतायाः घोषणा कृता।१९९९ — सोनाली बनर्जी भारतस्य प्रथमाया महिलामरीन-अभियन्त्री अभवत्।१९९९ — भारतस्य कार्गिल्-सङ्घर्षस्य समये भारतदेशे बन्दीकृताः पाकिस्तानी युद्धबन्दिनः मुक्ताः।२००३ — षष्टिसहस्रवर्षाणाम् अन्तरालेन अनन्तरं मङ्गलग्रहः पृथिव्याः सर्वाधिकसमीपे प्राप्तः।२००४ — वित्तमन्त्री शौकत अजीजः पाकिस्तानस्य नूतनः प्रधानमन्त्री निर्वाचितः।२००८ — सर्वोच्चन्यायालयस्य सेवानिवृत्तः न्यायाधीशः ए. के. माथुरः सशस्त्रबल-अधिकरणस्य प्रथमः अध्यक्षः नियुक्तः।२००८ — झारखण्डमुक्तिमोर्चा-दलस्य प्रमुखः शिबु सोरेनः झारखण्डस्य षष्ठमुख्यमन्त्रिरूपेण शपथं गृहीतवान्।२००९ — बहुजनसमाजपार्टी-दलस्य अध्यक्षरूपेण मायावती पुनः तृतीयवारं निर्वाचिता।२०१३ — उत्तरप्रदेशस्य मुजफ्फरनगरे द्वयोः धार्मिकसमुदाययोः मध्ये युद्धं प्रज्वलितम्।
जन्म
१८५९ — दोराबजी टाटा — देशस्य महान् उद्योगपतिः, येन टाटा-स्टील्-उद्योगस्य आधारशिला स्थापिता।१९०८ — सर् डॉन ब्रेडमैन — ऑस्ट्रेलियादेशस्य महानतमः क्रिकेट-क्रीडकः।१९५७ — एन. वी. रमणः — भारतस्य अष्टचत्वारिंशत्तमः मुख्यन्यायाधीशः।१९९३ — सी. ए. भवानी देवी — भारतीयमहिला-खड्गक्रीडिका।
निधनम्
२००६ — ऋषिकेश मुखर्जी — भारतीयचलच्चित्राणां प्रसिद्धः निर्माता निर्देशकश्च।२०१० — रवीन्द्र केलकरः — कोंकणीसाहित्यस्य प्रमुखः स्तम्भः।१९६३ — इनायतुल्लाह खान मशरिकी — खाकसार-आन्दोलनस्य जनकः पाकिस्तानस्य निर्माणे च महत्त्वपूर्णां भूमिकां निर्वहन् व्यक्तिः।१९७६ — मुकेशः — भारतीयः पार्श्वगायकः।१९७९ — लॉर्ड माउण्टबेटनः — ब्रिटिशराजनीतिज्ञः, नौसेनाप्रमुखः भारतस्य अन्तिमः वाइसरायः च।१९८२ — आनन्दमयी माता।१९९७ — मगंती अंकीनीडुः — तृतीयायाः, चतुर्थ्याः, पञ्चम्याः, षष्ठ्याः सप्तम्याश्च लोकसभायाः सदस्यः।१९९७ — आनन्द सिंहः — पञ्चम्याः, सप्तम्याः, अष्टम्याः नवम्याश्च लोकसभायाः सदस्यः।१९९७ — पी. अंकीनीडु प्रसाद रावः — पञ्चम्याः, षष्ठ्याः सप्तम्याश्च लोकसभायाः सदस्यः।
महत्त्वपूर्णः अवसरः
— राष्ट्रीयनेत्रदानपक्ष:।
Hindusthan Samachar / Divya Ranjan