लद्दाखे २२ सहस्रपादोन्नतितः स्वदेशीयस्य सैन्ययुद्धपैराशूट-प्रणाल्याः परीक्षणम्
न्योमा-मुध्-अवक्षेपणक्षेत्रे १३,७०० पादोन्नतौ त्रयः परीक्षण-कूर्दकाः सुरक्षितरूपेण अवतीर्णाः नवदिल्ली, २६ अगस्तमासः (हि.स.)। रक्षानुसन्धान-विकास-सङ्गठनेन लद्दाखे विश्वस्य अत्युच्चेषु अवक्षेपणक्षेत्रेषु अन्य-तमस्य न्योमा-मुध्-अवक्षेपणक्षेत्रस्य उपर
स्वदेशी मिलिट्री कॉम्बैट पैराशूट सिस्टम से उतरे जम्पर्स


न्योमा-मुध्-अवक्षेपणक्षेत्रे १३,७०० पादोन्नतौ त्रयः परीक्षण-कूर्दकाः सुरक्षितरूपेण अवतीर्णाः

नवदिल्ली, २६ अगस्तमासः (हि.स.)। रक्षानुसन्धान-विकास-सङ्गठनेन लद्दाखे विश्वस्य अत्युच्चेषु अवक्षेपणक्षेत्रेषु अन्य-तमस्य न्योमा-मुध्-अवक्षेपणक्षेत्रस्य उपरि स्वस्य सैन्ययुद्ध-पैराशूट-प्रणाल्याः सफलं परीक्षणं कृतम्। एते परीक्षणप्रयोगाः दक्षिण-पूर्व-लद्दाखस्य न्योमा-मुध्-अवक्षेपणक्षेत्रे कृताः, यत्र तापमानं न्यूनतमं माइनस १५ डिग्री-सेल्सियस-पर्यन्तम् आसीत्। त्रयः परीक्षण-कूर्दकाः २२ सहस्रपादोन्नतेः कूर्दितवन्तः तथा च १३,७०० पादोन्नतौ सुरक्षितरूपेण अवतीर्णाः। अनेन स्वदेशीयप्रणाल्या भारतीयसशस्त्रबलानां २५ सहस्रपादेभ्यः अधिकायाम् उन्नतौ सैनिकानां परि-नियोजनस्य क्षमता प्राप्स्यते, येन विदेशाश्रयः न्यूनीभविष्यति।

रक्षामन्त्रालयस्य अनुसारं स्वदेशी सैन्ययुद्ध-पैराशूट-प्रणाली अत्याधुनिक-पैराशूट-प्रणाली अस्ति, या रक्षानुसन्धान-विकास-सङ्गठनस्य आग्रास्थितेन वायुवितरणानुसन्धान-विकास-प्रति-ष्ठानेन बेङ्गलूरुनगरस्थितेन बीई-एमएल-संस्थानेन च संयुक्तरूपेण विकसिताऽस्ति। एषा भारतीयसशस्त्रबलैः प्रयुज्यमानासु एकमात्रा तादृशी पैराशूट-प्रणाली अस्ति, या २५ सहस्रपादेभ्यः अधिकायाम् उन्नतौ सञ्चालनाय समर्था अस्ति। एषा ३२ सहस्रपादोन्नतेः अपि सफलतया परीक्षिता अस्ति।

अधुना देशेन दक्षिण-पूर्व-लद्दाखे सैन्ययुद्ध-पैराशूट-प्रणाल्याः परीक्षणं कृत्वा अत्युच्चोन्नतिक्षेत्रेषु सैन्या-भियानानां कृते स्वदेशीय-प्रौद्योगिक्याः क्षेत्रे महत्त्वपूर्णा उपलब्धिः पुनरपि प्राप्ता अस्ति। अस्य परीक्षणस्य कार्यं एडीआरडीई-संस्थायाः परीक्षण-कूर्दकैः विंग-कमाण्डर राहुल झा, मुख्य-परीक्षण-कूर्दकः आर. जे. सिंहः, एमडब्ल्यूओ विवेक: तिवारी च कृतवन्तः। सर्वे कूर्दकाः एमसीपीएस-प्रणाल्या सह तस्याः विभिन्नानाम् उपप्रणालीनाम् अपि उपयोगं कृतवन्तः। समस्यापूर्णे न्योमा-मुध्-अवक्षेपणक्षेत्रे माइनस् १५ डिग्री-सेल्सियस्-तापमाने २२ सहस्रपादोन्नतेः च अस्याः प्रणाल्याः सफलं परीक्षणं कृतम्। ततः परीक्षण-कूर्दकैः निर्धारित-प्रक्रियामनुसृत्य पैराशूटं नियन्त्रयद्भिः अधः यात्रा कृता तथा च प्रायः १३,७०० पादोन्नतौ सुरक्षितरूपेण अवतरणं कृतम्।

डीआरडीओ-सङ्गठनस्य अनुसारं तादृशे अत्युच्चोन्नतौ अत्यल्पे च तापमानेऽपि सैन्ययुद्ध-पैराशूट-प्रणाली तया सम्बद्धाः स्वदेशीयाः प्रणाल्यश्च अपेक्षानुसारं कार्यं कृतवन्तः। एषा प्रणाली भारतस्य स्वदेशीय-उपग्रह-नौवहन-प्रणाल्या युक्ता अस्ति, या बाह्यहस्तक्षेपात् जामिङ्ग-प्रभावाच्च सुरक्षितं यथार्थं च नौवहनं सुनिश्चितं करोति। अस्यां मन्दावतरण-दरः, उत्कृष्टं संचालन-नियन्त्रणं, विशेष-प्राणवायु-प्रणाली, पैरा-सङ्गणकम् इत्यादयः स्वदेशीयाः उपप्रणाल्यः सन्ति। परीक्षणसमये स्वदेशीय-पैरा-सङ्गण-कस्य, प्राणवायु-प्रणाल्याः, विशेष-कूर्दन-वस्त्रस्य च सहितं सर्वासां सम्बद्धानां प्रणालीनाम् उपयोगः कृतः। अनेन अत्युच्चोन्नतौ सम्पूर्णस्य तन्त्रस्य संयुक्त-कार्यक्षमतायाः विश्वसनीयतायाश्च मूल्याङ्कनमपि कृतम्।

Hindusthan Samachar / Divya Ranjan