मुख्यमंत्री धामी पञ्चानां वर्षाणां कार्यकालस्य उपलब्धिषु आधारितं विशेषेण एल्बम गीतस्य कृतं विमोचनम्
देहरादूनम्, 26 अगस्तमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी बुधवासरे देहरादूनस्थिते मुख्यमन्त्रिणः शिविरकार्यालये पञ्चवटी फिल्म्स प्रोडक्शन् तथा आदर्श औद्योगिक स्वायत्तसहकारिता (आदर्शसंस्था) इत्यनयोः संस्थयोः द्वारा तस्य पञ्चवर्षीयकार्यकालस्य उ
विमोचन करते मुख्यमंत्री धामी।


देहरादूनम्, 26 अगस्तमासः (हि.स.)।

मुख्यमन्त्री पुष्करसिंहधामी बुधवासरे देहरादूनस्थिते मुख्यमन्त्रिणः शिविरकार्यालये पञ्चवटी फिल्म्स प्रोडक्शन् तथा आदर्श औद्योगिक स्वायत्तसहकारिता (आदर्शसंस्था) इत्यनयोः संस्थयोः द्वारा तस्य पञ्चवर्षीयकार्यकालस्य उपलब्धीनाम् आधारेण निर्मितस्य विशेषस्य एल्बमगीतस्य विमोचनं कृतवान्।

मुख्यमन्त्री एल्बमेन सम्बद्धान् निर्मातृ-निर्देशकान्, गीतकारान्, संगीतकारान्, गायकान् तथा अन्यान् कलाकारान्, आदर्शसंस्थायाः पदाधिकारिणश्च एतस्य प्रयासस्य कृते शुभकामनाः प्रदत्तवान्। सः अवदत् यत् उत्तराखण्डस्य विकासयात्रां राज्ये जायमानान् सकारात्मकपरिवर्तनांश्च गीत-संगीतस्य माध्यमेन जन-जनं प्रति प्रापयितुम् अयं प्रयासः प्रशंसनीयः अस्ति।

धामी अवदत् यत् राज्यसर्वकारः उत्तराखण्डस्य समग्रविकासाय निरन्तरं कार्यं कुर्वन् अस्ति। रोजगारस्य स्व-रोजगारस्य च अवसरानां वर्धनाय, पर्यटनस्य प्रोत्साहनाय, महिलानां सशक्तीकरणाय युवभ्यश्च नवीनावसराणां सृजनाय विशेषप्रयासाः क्रियमाणाः सन्ति। राज्यस्य समृद्धायाः संस्कृतेः, परम्पराणां तथा देवभूमेः विशिष्टपरिचयस्य संरक्षण-संवर्धनेन सह विकासकार्याणि तीव्रतया अग्रे वर्ध्यन्ते।

अस्मिन् अवसरे आदर्शसंस्थायाः अध्यक्षा आशा कोठारी मुख्यमन्त्रिणं शालेन आच्छाद्य स्मृतिचिह्नं च प्रदाय तस्य स्वागतं कृतवती। सा मुख्यमन्त्रिणः नेतृत्वे राज्ये सम्पन्नानां विकासकार्याणां तथा जनहिते गृहीतानां विभिन्नानां महत्त्वपूर्णनिर्णयानां प्रशंसां कृतवती।

मुख्यमन्त्री धामी एल्बमस्य निर्माता उत्तमसिंहभण्डारीं, गायकौ विक्रमभण्डारीं शिवानीनेगीं च, संगीतकारं विजयपालकलूडां सहितम् एल्बमेन सम्बद्धान् कलाकारान् सम्मानितवान्।

-------------

Hindusthan Samachar / Dheeraj Maithani