Enter your Email Address to subscribe to our newsletters

शिमला, 26 अगस्तमासः (हि.स.)।
हिमाचलप्रदेशस्य त्रयः पारम्परिकाः उत्पादाः रणसिंघा, काष्ठनक्काशी च हस्तनिर्मितानि कम्बलानि च अधुना एव भौगोलिकसूचकाङ्कस्य (जीआई) मान्यतां प्राप्तवन्तः। एतेषां उत्पादानां सम्बद्धाः शिल्पिनः अद्य लोकभवने राज्यपालं कविन्द्रगुप्तं मिलितवन्तः। जीआई-पञ्जीकरणस्य प्रक्रिया राष्ट्रियकृषि-ग्रामीणविकासनाबार्डस्य (नाबार्डस्य) हिमाचलप्रदेशक्षेत्रीयकार्यालयेन स्थानीय-उत्पादकसमूहानां, शिल्पिसमूहानां तथा अन्यसम्बद्धहितधारकाणां सहयोगेन सम्पन्ना कारिता।
अस्मिन् अवसरे राज्यपालः कविन्द्रगुप्तः नाबार्डस्य अधिकारिणां माध्यमेन आचारी (एएसीएचआरआई) संस्थानस्य कुल्लूनगरस्य मनीषभारतीं महेशभारतीं च, कम्बलशिल्पिनीं शकुन्तलादेवीं, एसएवीएम्-संस्थायाः मण्डीनगरस्य हीरामणिं, रणसिंघाशिल्पिनं प्रदीपकुमारं तथा काष्ठनक्काशीशिल्पिनं कृष्णलालं जीआई-प्रमाणपत्रैः सम्मानितवान्।
अस्मिन् अवसरे राज्यपालः अवदत् यत् जीआई-सूचकाङ्कः हिमाचलप्रदेशस्य पारम्परिकानां उत्पादानां विशिष्टां परिचयं प्रमाणिकतां च संरक्षितुं महत्त्वपूर्णां भूमिकां निर्वक्ष्यति। अनेन देशीयेषु अन्तर्राष्ट्रीयेषु च विपणिषु एतेषां उत्पादानां परिचयः सुदृढः भविष्यति तथा च एतेषां सम्बद्धानां शिल्पिनां समुदायानां च स्वकौशलस्य कृते उत्तमं सम्मानं सह अधिकः आर्थिकलाभः अपि प्राप्स्यते।
राज्यपालः पारम्परिकेभ्यः उत्पादेभ्यः जीआई-मान्यतां प्रदातुं स्थानीय-उत्पादकानां शिल्पिसमूहानां च सहयोगं कृतवद्भ्यः नाबार्डस्य प्रयासानां प्रशंसाम् अकरोत्। सः अवदत् यत् एतादृश्यः उपक्रमाः प्रदेशस्य समृद्धायाः सांस्कृतिकायाः विरासतायाः संरक्षणस्य सह ग्रामीणसमुदायानां पारम्परिकशिल्पिनां च कृते स्थायिजीविकायाः अवसरान् सृजितुं महत्त्वपूर्णाः सन्ति।
सः गुणवत्तायाः सुधारस्य, उत्तमस्य विपणिचिह्नीकरणस्य, आधुनिकविपणनस्य, ई-वाणिज्यस्य तथा विस्तृतविपणिसम्पर्कस्य माध्यमेन हिमाचलीयानां उत्पादानाम् अधिकाधिकं प्रोत्साहनस्य आवश्यकतायाः विषये बलं दत्तवान्, येन प्रदेशस्य समृद्धा हस्तशिल्पकला देशविदेशयोः उपभोक्तृभ्यः प्रापयितुं शक्येत।
---------------
Hindusthan Samachar / Dheeraj Maithani