Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 26 अगस्तमासः (हि.स.)।नेपालदेशे अतिवृष्ट्या सहसा च आगतेन जलप्लावनेन उत्पन्नायां परिस्थितौ भारतसर्वकारः प्रभावितजनानां साहाय्यार्थं यथाशीघ्रं राहतसामग्रीं प्रेषयितुं सज्जतां कुर्वन् अस्ति।
अस्मिन्नेव मध्ये नेपालस्थितेन भारतीयदूतावासेन जलप्लावनेन प्रभावितानां भारतीयनागरिकाणां साहाय्यार्थम् आपत्कालीनसम्पर्कदूरभाषसङ्ख्याः प्रकाशिताः सन्ति। भारतीयनागरिकाः +९७७ ९८५ १३१ ६८०७ तथा +९७७ ९७० ९१० ७५०० इत्येतयोः सङ्ख्ययोः सम्पर्कं कर्तुं शक्नुवन्ति।
नेपालस्य तिब्बतसीमायाः समीपे स्थिते रसुवाजिल्लायां बुधवासरे भोटेकोशी-नद्यां सहसा जलप्लावनम् अभवत्। प्रारम्भिकसूचनानुसारं तिब्बतीक्षेत्रस्य दिशि हिमनद्यां सहसा जलस्य वृद्धिः अथवा हिमस्खलनम् अस्य जलप्लावनस्य सम्भावितं कारणं मन्यते। जलप्लावनेन अनेकानि ग्रामाणि, मार्गाः, सेतवः तथा जलविद्युत्परियोजनाः क्षतिग्रस्ताः सन्ति।
स्थानीयप्रतिवेदनानुसारं दुर्घटनायां न्यूनातिन्यूनं ८-९ जनानां मृत्युः अभवत्, यदा ३८० तः अधिकाः जनाः लुप्ताः कथिताः सन्ति। लुप्तजनेषु प्रायः १०५ भारतीयनागरिकाः अपि सम्मिलिताः सन्ति। भारतीयदूतावासः परिस्थितौ निरन्तरं दृष्टिं स्थापयन् अस्ति तथा प्रभावितभारतीयानां परिजनानां साहाय्यार्थं सम्पर्कव्यवस्था सक्रियकृता अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani