भारत-सेशेल्सदेशयोः उच्चस्तरीयसभायां मत्स्यपालने, जलीयकृषौ नील-अर्थव्यवस्थायां च सहयोगाय सहमतिः
नवदिल्ली, २६ अगस्तमासः (हि.स.)। भारत-सेशेल्सदेशयोः मध्ये मत्स्य-पालनस्य, जलीयकृषेः, नील-अर्थ-व्यवस्थायाश्च क्षेत्रेषु रणनीतिकसहयोगं सुदृढं कर्तुम् उच्चस्तरीया द्विपक्षीयसभा अभवत्। भारतीयप्रतिनिधिमण्डलस्य नेतृत्वं सचिवः डॉ. अभिलक्षलिखी अकरोत्, यदा त
भारत और सेशेल्स के बीच मत्स्य, जलीय कृषि और ब्लू इकोनॉमी पर उच्चस्तरीय बैठक।


नवदिल्ली, २६ अगस्तमासः (हि.स.)। भारत-सेशेल्सदेशयोः मध्ये मत्स्य-पालनस्य, जलीयकृषेः, नील-अर्थ-व्यवस्थायाश्च क्षेत्रेषु रणनीतिकसहयोगं सुदृढं कर्तुम् उच्चस्तरीया द्विपक्षीयसभा अभवत्। भारतीयप्रतिनिधिमण्डलस्य नेतृत्वं सचिवः डॉ. अभिलक्षलिखी अकरोत्, यदा तु सेशेल्सदेशस्य पक्षतः मत्स्यपालन-कृषि-नील-अर्थव्यवस्थामन्त्री वॉलेस कॉसग्रो प्रतिनिधित्वं कृतवान्।

केन्द्रीयमत्स्यपालन-पशुपालन-दुग्ध-व्यवसायमन्त्रालयस्य अनुसारं मङ्गलवासरे आयोजितायां सभायाम् उभयोः पक्षयोः विद्यमानव्यवस्थायाः पुनरवलोकनं कृतम्, नवीनसहयोगा-वसराणां विषये चर्चा कृता तथा समुद्रीय-संसाधनानां स्थायीप्रयोगाय दृढकार्य-योजनां निर्मातुं सहमतिः जाता। भारतीयनेतृत्वेन सेशेल्सप्रतिनिधि-मण्डलस्य स्वागतं कुर्वता उक्तं यत् उभयोः देशयोः मध्ये गभीरा समुद्रीयसहभागिता वर्तते तथा भारतं मत्स्यपालने, जलीयकृषौ, वैज्ञानिकानुसन्धाने क्षमता-निर्माणे च तकनीकीसहयोगं वर्धयितुं प्रतिबद्धम् अस्ति।

चर्चायाः अवधौ उभयोः पक्षयोः मत्स्यक्षेत्रम् नील-अर्थव्यवस्थां च आर्थिकविकासस्य, ग्रामीणरोजगारस्य तथा स्थायीविकासस्य महत्त्वपूर्णस्तम्भौ इति वर्णितौ। भारतीय-प्रतिनिधिमण्डलेन सूचितं यत् देशस्य वार्षिकं मत्स्योत्पादनं १.९७ कोटिटनपर्यन्तं प्राप्तम् अस्ति तथा समुद्रीय-उत्पादानां निर्यातः ८.४६ अरब-अमेरिकीडॉलर-परिमितः अस्ति। भारतं स्थायीमत्स्य-प्रबन्धनस्य, उत्तरदायि-दोहनस्य तथा प्रौद्योगिक्या-धारित-संरचनायाः विकासस्य स्वप्रयत्नान् प्रस्तुतवान्।

सभायां समुद्रीयजलीयकृषेः, आधुनिक-हैचरीकेन्द्राणां, टूना-मत्स्यस्य अनु-कूलनस्य, मत्स्यभाण्डारस्य मूल्याङ्क-नस्य, उन्नतस्य मत्स्योत्तर-प्रक्रियायान्त्रिकीविद्यायाः तथा समुद्रीयसंरक्षणस्य च क्षेत्रेषु संयुक्त-विकासस्य सम्भावनानां विषये चर्चा कृता। उभयोः देशयोः मत्स्यदत्तांशप्रणाल्यां, निरीक्षणव्यवस्थायां तथा कृत्रिमबुद्धिमत्ता-धारितप्रबन्धने च सहयोगस्य सम्भावनाः अन्विष्टाः। टूना-मत्स्यस्य प्रसंस्करणे, उत्पादवैविध्यीकरणे तथा स्थायिकचरा-प्रबन्धनेऽपि बलं दत्तम्।

सेशेल्सदेशेन मत्स्यपालनस्य जलीयकृषेः च क्षेत्रयोः विशेषद्विपक्षीयसहभागिता-ज्ञापनपत्रं कर्तुं स्वेच्छा व्यक्ता तथा संस्थागतसंरचनायाः माध्यमेन निरन्तर-संवादस्य आवश्यकता प्रतिपादिता। सभायां परस्परमहत्त्वस्य, तकनीकीज्ञान-विनिमयस्य तथा उत्कृष्टताकेन्द्राणां सहयोगेन क्षमतानिर्माणस्य विषयेऽपि सहमतिः जाता।

Hindusthan Samachar / Divya Ranjan