कुकू कोहलेः निधनम्: राज कपूरस्य सहायकेन अजय देवगनाय स्तरवन्तं निर्देशकं यावत् यात्रा
बॉलीवुडस्य दिग्गजः निर्देशकः कुकू कोहली ७७ वर्षस्य वयसि दिवङ्गतः। हृदयाघातस्य अनन्तरं सः मुम्बईनगरस्य कोकिलाबेन-अस्पताले अन्तिमं श्वासं त्यक्तवान्। तस्य निधनस्य वार्तया हिन्दीचलच्चित्रजगति शोकस्य लहरिः व्याप्ता अस्ति। कुकू कोहली तेषु निर्देशकेषु पर
कुकू कोहली, अरुणा ईरानी - फोटो सोर्स एक्स


बॉलीवुडस्य दिग्गजः निर्देशकः कुकू कोहली ७७ वर्षस्य वयसि दिवङ्गतः। हृदयाघातस्य अनन्तरं सः मुम्बईनगरस्य कोकिलाबेन-अस्पताले अन्तिमं श्वासं त्यक्तवान्। तस्य निधनस्य वार्तया हिन्दीचलच्चित्रजगति शोकस्य लहरिः व्याप्ता अस्ति। कुकू कोहली तेषु निर्देशकेषु परिगण्यते, येषां निर्देशनेन १९९० तमे दशके हिन्दीचलच्चित्रस्य अनेकानां लोकप्रियतारकाणां व्यावसायिकजीवने नूतना दिशा प्राप्ता। विशेषतः अभिनेता अजय देवगणाय चलचित्रजगति प्रथमं बृहदवसरं प्रदातुं श्रेयः तस्मै दीयते।

अवतार कोहली इति नाम्ना जातः कुकू कोहली स्वस्य चलचित्रयात्रायाः आरम्भं अभिनेता-निर्देशकस्य राज कपूरस्य सहायकनिर्देशकत्वेन अकरोत्। सः प्रायः एकादशवर्षपर्यन्तं राज कपूरस्य सह कार्यं कृतवान्। अस्मिन् अवधौ सः ‘बॉबी’, ‘सत्यम् शिवम् सुन्दरम्’ तथा ‘प्रेम रोग’ इत्यादीनां चर्चितचलच्चित्राणां निर्माणप्रक्रियायां सम्बद्धः आसीत्। राज कपूरस्य चलचित्रनिर्माणशैलीं समीपतः दृष्ट्वा अवगत्य च सः स्वकीयां निर्देशनस्य दिशां निर्मितवान्।

तदनन्तरं कुकू कोहली राहुल रवैलस्य सह द्वितीय-एककनिर्देशकत्वेन कार्यं कृतवान्। ‘बेताब’ तथा ‘अर्जुन’ इत्यादिभिः चलचित्रैः सम्बद्धः अयं कालखण्डः तं स्वतन्त्रनिर्देशनाय सज्जीकृतवान्। १९९१ तमे वर्षे तस्मै सः अवसरः प्राप्तः, येन तस्य सह हिन्दीचलच्चित्रस्य एकस्य नूतनस्य अभिनेतुः भविष्यं अपि परिवर्तितम्। ‘फूल और कांटे’ इति चलचित्रस्य माध्यमेन सः अजय देवगणं अभिनेतृरूपेण प्रवर्तितवान्। चलचित्रस्य सफलतया अजय देवगणः रात्रौ एव व्यापकं प्रसिद्धिम् अलभत, कुकू कोहली इत्यस्य नाम अपि चलचित्रोद्योगे प्रतिष्ठितम् अभवत्।

कुकू कोहलिना ततः ‘सुहाग’ इति सफलचलच्चित्रस्य निर्देशनं कृतम्, यस्मिन् प्रथमवारं अजय देवगण-अक्षयकुमारयोः युगलम् एकत्र रूपपटले दृष्टम्। करिश्मा कपूर तथा नगमा इत्येताभ्यां अभिनीतमिदं चलचित्रमपि दर्शकेषु अत्यन्तं लोकप्रियम् अभवत्। तदतिरिक्तं तेन अजय देवगण-तब्बू इत्येताभ्यां सह ‘हकीकत’, गोविन्देन सह ‘अनाड़ी नंबर 1’ तथा अक्षयकुमार-ट्विंकल खन्ना इत्येताभ्यां अभिनीतं ‘जुल्मी’ इत्यादीनां चलचित्राणां निर्देशनं कृतम्।

कुकू कोहलीस्य चलचित्रेषु साहसिकदृश्यानाम्, प्रणयस्य, पारिवारिकभावनानां मनोरञ्जनस्य च विशेषः समन्वयः दृश्यते स्म। २००२ तमे वर्षे प्रदर्शितं ‘ये दिल आशिकाना’ इति चलचित्रं तस्य कारकीर्देः स्मरणीयचलच्चित्रेषु अन्यतमम् आसीत्। करणनाथ तथा जीनत अमान इत्येताभ्यां अभिनीतं रोमाण्टिक् चलचित्रमिदं विशेषतः नदीम-श्रवणयोः सङ्गीतस्य कृते स्मर्यते। प्रदर्शनस्य प्रायः द्विदशकानन्तरं २०२६ तमे वर्षे इदं चलचित्रं पुनः चलचित्रगृहेषु प्रदर्शितम्, येन कुकू कोहलीस्य चलचित्रैः सम्बद्धाः दर्शकानां पुरातनाः स्मृतयः पुनः ताजाः अभवन्।

निर्देशकत्वेन कुकू कोहलीस्य अन्तिमं चलचित्रं २००४ तमे वर्षे प्रदर्शितं ‘वो तेरा नाम था’ इति आसीत्। अस्मिन् चलचित्रे अर्जुन बाजवा तथा कांची कौल इत्येताभ्यां स्वकीयस्य अभिनयजीवनस्य आरम्भः कृतः। तदनन्तरं सः निर्देशनक्षेत्रात् दूरं गतवान्, किन्तु १९९० तथा २००० दशकस्य प्रारम्भिकवर्षेषु तेन निर्मितानि चलचित्राणि तं हिन्दीचलच्चित्रस्य लोकप्रियनिर्देशकाणां श्रेण्यां दीर्घकालं यावत् स्थापयन्ति स्म।

कुकू कोहलीस्य निजीजीवनमपि प्रायः चर्चायां भवति स्म। तेन द्विवारं विवाहः कृतः आसीत्। तस्य प्रथमायाः पत्नीया रीतया कोहलिना सह तस्य द्वे पुत्र्यौ पूजा तथा करिश्मा च स्तः। १९९० तमे वर्षे सः प्रसिद्धया अभिनेत्र्या अरुणया ईराण्या सह द्वितीयं विवाहम् अकरोत्। उभयोः स्वकीयाः सन्ततिः नासीत्। कुकू कोहली-अरुणा ईराणी इत्येतयोः सम्बन्धः दीर्घकालं यावत् चलचित्रोद्योगे चर्चायाः विषयः आसीत्।

प्रायः चत्वारिंशद्वर्षदीर्घे चलचित्रजीवने कुकू कोहलिना सहायकनिर्देशकात् सफलचलच्चित्रनिर्देशकपर्यन्तं यात्रां कृता। सः न केवलं बहूनि लोकप्रियचलच्चित्राणि रूपपटले प्रस्तुतवान्, अपितु अजय देवगणसदृशं कलाकारं प्रवर्त्य हिन्दीचलच्चित्रजगत् एकं महत्तारकं प्रदत्तवान्। तस्य निधनस्य सह बॉलीवुडस्य एकस्य युगस्य तथा एकस्य तादृशस्य चलचित्रकारस्य विदायः अभवत्, यस्य चलचित्राणां तैः सह सम्बद्धानां कलाकाराणां च स्मृतयः दीर्घकालं यावत् दर्शकानां मध्ये स्थास्यन्ति।

Hindusthan Samachar / Dheeraj Maithani