हिजाब इत्यस्य आवरणे सङ्कीर्णराजनीतिः न भवेत् - मायावती
लखनऊ, २६ अगस्तमासः (हि.स.)। हिजाब-विवादं प्रति बहुजनसमाजपार्टी इत्यस्याः राष्ट्रीयाध्यक्षा मायावती प्रतिक्रियां प्रदत्तवती। सा अवदत् यत् एतादृशान् विषयान् अधिकं विस्तृतान् कृत्वा न्यायविवादरूपेण परिणमयितुं स्थाने विद्यालयप्रबन्धनस्य शासन-प्रशासनस्य
बसपा प्रमुख मायावती की फोटो


लखनऊ, २६ अगस्तमासः (हि.स.)। हिजाब-विवादं प्रति बहुजनसमाजपार्टी इत्यस्याः राष्ट्रीयाध्यक्षा मायावती प्रतिक्रियां प्रदत्तवती। सा अवदत् यत् एतादृशान् विषयान् अधिकं विस्तृतान् कृत्वा न्यायविवादरूपेण परिणमयितुं स्थाने विद्यालयप्रबन्धनस्य शासन-प्रशासनस्य च साहाय्येन परस्परं समाधानं कर्तव्यम्। अस्य आवरणे ‘सङ्कीर्ण-राजनीतिः’ न भवेत्।

मायावती बुधवासरे सामाजिक-माध्यममञ्चे एक्स् इत्यत्र दीर्घायां पोस्ट्-इत्याख्यायां लिखितवती यत् डॉ. भीमराव-आम्बेडकरः सर्वेषां जातीनां धर्माणां च जनानां कृते समानाधिकारप्रदायकं संविधानं प्रदाय देशं ऐक्यसूत्रेण बद्धुं सशक्तभारतस्य निर्माणस्य च गारण्टीं सुनिश्चितवान्। तदनुसारं सर्वेषां धर्माणां धर्मग्रन्थानाम्, धार्मिकरीतिरिवाजानां मान्यतानां च आधारेण शान्तं सुखमयं च जीवनं जीवितुं अधिकारः अस्ति। तस्य अवहेलनां कर्तुं तत्र हस्तक्षेपं वा कर्तुं स्थाने सर्वैः तस्य पवित्रतायाः सम्मानं करणीयम्।

सा अग्रे लिखितवती यत् महिलानां गरिमा, सम्मानः पर्दा च इत्यादयः विषयाः संवेदनशीलतया द्रष्टव्याः। तस्याः मतानुसारं विद्यालय-वेशभूषा, चादरः अथवा हिजाबः इत्यादीन् विषयान् अधिकं विस्तृतान् कृत्वा न्यायालये विवादस्य न्यायविषयं कर्तुं स्थाने विद्यालय-प्रबन्धनस्य शासन-प्रशासनस्य च परस्परसहमत्या तेषां समाधानं करणीयम्, येन कोऽपि तस्य आवरणे सङ्कीर्ण-राजनीतिं कर्तुं अवसरं न प्राप्नुयात्।

मायावती इदमपि उक्तवती यत् बसपा सर्वेषां समाजानां सुरक्षायाः सम्मानस्य च गारण्टीं प्रदात्री आम्बेडकरवादी पार्टी अस्ति। तस्याः मतं यत् कस्यापि धर्मस्य, धर्मग्रन्थस्य, धार्मिकप्रचलनस्य, मान्य-तानां च संवेदनशीलविषयेषु सर्वे जनाः टीकाटिप्पणीं कर्तुं विरमन्ति चेत् तत् देशस्य जनहितस्य च कृते हितकरं भविष्यति। सहैव सा बदायूंनगरे आम्बेडकरस्य प्रतिमां प्रति प्रचलितं विवादमपि शीघ्रं समाधातुं आग्रहं कृतवती।

Hindusthan Samachar / Divya Ranjan